Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 191
________________ सम्यक्त्वकौमुदी प्रस्ताव ॥१८७॥ ******XkkkXXXXXXXXX* ततः समुद्रदत्तोऽवक तं स्वदेशनवृतः। एतावेव ग्रहीष्यामि नान्यैरश्वैः प्रयोजनम् ॥ ७३ ।। यद्रोचते ग्रहीतव्यं तदेवाश्वद्वयं त्वया । एवं समक्षं लोकानां दत्तमस्ति वचः पुरा ॥ ७४ ॥ कदाचित्कम्पते मेरोः शृङ्गकल्पान्तवायुभिः । प्रपन्नं महतां नैव वितथं जायते क्वचित् ।। ७५॥ अशोक ! त्वं सतां श्रेष्ठः श्रीदवत् श्रीमदग्रणीः । प्रमाणं कुरु वाक्यं स्वमित्यूचुर्घामपूरुषाः ॥ ७६ ॥ युग्मम् ॥ ततोऽशोको गृहं गत्वा गृहिणीमित्यभाषत । अश्वभेदः कुतोऽनेन ज्ञातः सम्यग् दुरात्मना ।। ७७ ।। वीतशोकाऽवदत्पद्मश्रियस्ता निखिला स्थितिम् । अश्वाधीशस्ततो दध्यौ विद्धस्तद्वार्तयाऽधिकम् ॥ ७८।। पितरं मातरं पुत्रं भ्रातरं श्वशुर तथा । योषितो वश्चयन्त्येव स्वकार्येकचिकीर्षया ॥ ७६ ॥ वामा वामाशयाः पामा इवानिशमसंशयम् । पितुर्गेहें यथा देहं शोषयन्ति सुखेप्सया ॥८॥ दत्ताशेषसमीहस्य पितृगेहस्य पुत्रिका। नित्योद्वेगपदं जज्ञे प्रायशः पश्यतोहरः ॥ ८१॥ अनेनापि सदाचारतत्परेण सुता मम । असौ कथं वशीचक्रेऽथवा कामो हि दुर्जयः ॥ २ ॥ सुरूपां कामिनी दृष्टा यौवनोन्मादमन्थराम् । योगिनोऽपि विमुह्यन्ते किमुत प्राकृतो जनः॥३॥ विचारं विदधे श्रेष्ठी स्वश्रेष्ठिन्या समं ततः । गृहिणो गृहिणीनेत्राः प्रायः प्रौढे प्रयोजने ॥ ८४ ॥ ततो जायानुमत्याशु श्रेष्ठी मतिमतांवरः । स्वनन्दिनीं ददौ तस्मै वाजिरत्नद्वयीयुताम् ॥८५॥ पद्मश्रियं समुद्रोऽथ परिणीय श्रियं यथा । तदश्वद्वयमासाद्य मुमुदे वासुदेववत् ॥८६॥ KXXXXXXXXXXXXXXXXXXXXXXXXX) ॥१८७॥ *****

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220