SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी षष्ठः प्रस्ताव: ॥१८॥ शूरदेवोऽभवच्छु ष्ठी तत्रैव परमार्हतः । सर्वाङ्गीणगुणा तस्य प्रिया गुणवतो तथा ॥ ८॥ पात्रदानजिनेन्द्रार्चादीनोद्धारादिकर्मभिः । दम्पती तौ निजं जन्म कृतार्थीचक्रतुः सदा ॥ ६ ॥ शरदेवोऽन्यदा देशान्तराद्वाणिज्यकर्मणा । आनीय हयरत्नानि भूपतेः प्राभृतं व्यधात् ॥१०॥ धनकोटीप्रदानेन सत्कृत्य बहुमानतः । तस्मै नृपोऽपि हृष्टोऽदान नगरश्रेष्ठिसम्पदम् ॥ ११ ॥ प्रसादो देवभूपाना रत्नसागरवाजिनाम् । वाणिज्यं रससिद्धिश्च दौगत्यं घ्नन्ति तत्क्षणात् ॥ १२॥ स प्राप्य राजसन्मानं राजसंमानमार्हतः। न भेजे परकार्येषु चित्रं क्वापि नदीष्णहृत् ॥ १३ ॥ भोजनावसरे तस्य मुनीन्द्रो गुणशेखरः। एकदा मन्दिरं प्रापत् पारणाय तपोनिधिः॥१४॥ प्रणिपत्यागमोक्तेन विधिना विहितादरः। पायसं परया भक्त्या स तस्मै प्रददौ स्वयम् ॥१५॥ तस्यावासे सुरैश्चक्रे तदा तद्दाननन्दितः । पञ्चाश्चर्यमहो ! साधुदानकल्पद्रुवैभवम् ॥ १६ ॥ सर्वोत्तमरसोपेतान् पात्रदानानुभावतः । बबन्धे शूरदेवेन तीर्थकृत्कर्म तद्भवे ।। १७ ॥ न्यायेन धर्मभेदेषु दानमेव धुरि स्थितम् । लभ्यन्ते तत्प्रसादेन यतः सर्वा अपि श्रियः॥१८॥ मन्ये धर्मप्रभेदेषु दानधर्मो महीपतिः। यदमुधुरि कुर्वन्ति सर्वेऽमी धर्मवादिनः ॥ १६ ॥ पुरे तत्रैव वास्तव्यः श्रेष्ठिसागरदत्तभूः । श्रेष्ठी समुद्रदत्ताख्यः प्रख्यातो गुणवज्जने ॥ २० ॥ निर्धनानां शिरोरत्नं सयत्नोऽपि धनार्जने । दृष्ट्वा तदानमाहात्म्यं चिन्तामेवं दधौ हृदि ॥ २१॥ BXXXXXXXXXXXXXXXXXXXXXXXXX ॥१८२॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy