________________
सम्यक्त्वकौमुदी
षष्ठः
प्रस्तावः
॥१८॥
XXXXXXXXXXXXXXXXX*
न सतोऽन्यगुणान् हिंस्यान्नासतः स्वस्य वर्णयेत् । तथाकुर्वन् प्रजायेत नीचैर्गोत्रोचितः पुमान् ॥१॥
मोहान्धकारक्षयदीपिकाभां कथामिमा यो हृदये सहर्षः।
संस्थापयेत्तस्य जिनेन्द्रधर्मतत्त्वप्रकाशः स्फुरति स्फुटश्रीः ॥ ४०५॥ इति सम्यक्त्वकौमुद्यां श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यैः पण्डितजिनहर्षगणिभिः कृतायां पञ्चमः प्रस्तावः ॥ ग्रन्थानम् ४५७ अक्षर २०॥
॥ अथ षष्ठः प्रस्तावः॥ अथ विद्युल्लतां स्माह श्रेष्ठी सर्वज्ञधर्मभृत् । शुद्धसम्यक्त्वसम्प्राप्तिहेतु वद मनस्विनि ! ॥१॥ ततः स्वदयितादेशं सुधादेश्यं निशम्य सा । उवाच रचितोल्लासं दृष्टान्तं बोधिलाभदम् ॥ २॥ अत्रैव भरतक्षेत्रे पवित्रे पुण्यसमभिः । कौशाम्बीनगरी नाम धाम सर्वाद्भुतश्रियाम् ॥ ३ ॥ रणकण्डूलदोर्दण्डः षट्खण्ड क्षितिमण्डनः । सुदण्डोऽभूभुवो भर्ता तत्र पात्रं जयश्रियः॥ ४ ॥ दृढधर्मस्थितत्वेन समितिप्रयतत्वतः । सभां विभूषयामास यो द्विधाऽपि क्षमाभृताम् ॥ ५॥ ... तस्याभूद्विजया भत हृदि हारानुकारिणी । सद्वृत्तनायकोपेता प्रिया पुण्यगुणान्विता ॥६॥ सुमतिः सुमतिस्तस्य सचिवः शुचिकर्मभूः । बभूव तत्प्रिया नाम्ना गुणश्रीरथतोऽपि च ॥७॥
XXXXXXXXXXXXXXXXXXXXXXXXK:
॥१८॥