SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१८०॥ ****** ********* श्रीकं तनयं दृष्ट्वा सदाचारधुरन्धरम् । तादृग्मित्रगणोद्वर्ण्य मानसद्गुणसङ्गतम् ॥ ३६२ ॥ क्षणान्निजगृहायातं जननीजनकादयः । जहर्षुः स्वजनाः सर्वे कुर्वन्तः सर्वतो महम् || ३६३ ॥ तदीयाद्भुतमाकर्ण्य विस्मितो नृपतिः पुनः । तत्रागत्य न्यधात् श्रेष्ठिपदे तं मानदानतः ॥ ३६४ ॥ अथ स्वस्वपदे न्यस्य क्रमेण निजनन्दनान् । नृपामात्यसमुद्राख्यश्रेष्ठिनः श्रेष्ठवासनाः || ३६५ ॥ अष्टाहिकोत्सवं कृत्वा दत्वा दानानि चार्थिषु । मुनिचन्द्रगुरोः पार्श्वे जगृहु: संयमश्रियम् ॥ ३६६ ॥ उमयोऽथ पुरे श्रेष्ठिपदं कुर्वन्नगर्वहत् । सुखीचकार निःशेषं लोकं सत्पक्षपोषकः ॥ ३६७॥ कैलाशगिरिसङ्काशं चैत्यं श्री ऋषभप्रभोः । स्फाटिकं तत्र निर्माय स लेभे सम्पदः फलम् ॥ ३६८ ॥ नानाजिनेन्द्रबिम्बानां प्रतिष्ठाः समहोत्सवम् । प्रतिवर्ष विनिर्माय स जन्मफलमग्रहीत् ॥ ३६६ ॥ धन्योऽहं सफलं जन्म ममेति मुदमुद्वहन् । आनर्च जगतः पूज्यं श्रीसङ्घ स चतुविधम् || ४०० ।। यो जिनेन्द्रमते दीक्षामादत्ते भवभीलु (रु) कः । कुर्वेऽहं तत्कुटुम्बस्य चिन्तामित्युदघोषयत् ॥ ४०१ ॥ युग्मम् ॥ क्रमेण संयमं प्राप्य तस्मात् श्रीगुरुपुङ्गवात् । उमयः परमानन्दपदसाम्राज्यमाप्तवान् ॥ ४०२ ॥ मयाऽपि तत्र सम्यक्त्वं तत्त्वश्रद्धानलक्षणम् । प्रापि पुण्यानुभावेन सर्वव्रतविभूषणम् ॥ ४०३॥ इति कनकलतोक्तं श्रेष्टनोश्चरित्रं जिनपतिमतदाढ्र्योद्भूतमाहात्म्ययुक्तम् । अवितथतममेतन्मेनिरे कुन्दवल्लीं चितिपतिसचिवाईद्दासमुख्या विहाय ॥ ४०४ ॥ यतः - ***** ******* पञ्चमः प्रस्तावः ॥१८०॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy