SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी पश्चम: प्रस्ताव: ॥१७॥ परं सत्त्ववतां धुयस्त्वमसि श्रावकोत्तमः । वरं वृणीष्व कल्याणिन् ! प्रसन्नाऽस्मि तवाधुना ।। ३८३॥ स प्राह यदि मे तुष्टा भवती वनदेवता । त्वत्प्रसादेन जीवन्तु ममामी सहचारिणः ॥ ३८४ ॥ इत्युक्ताऽनेन सा देवी जीवयित्वाऽखिलान् नरान् । धर्मस्वरूपमाख्याय तेषामग्रे यथास्थितम् ॥ ३८५॥ पुरीमुज्जयिनी नीत्वा श्रावकं सपरिच्छदम् । गाङ्गेयवृष्टिं निर्मायं निर्माय च गृहाङ्गणे ॥ ३८६ ॥ पश्चाश्वयं प्रपञ्च्यासौ जिनधर्मोन्नतिप्रदम् । नत्वा च तत्पदाम्भोजमाससाद निजं पदम् ॥ ३८७ ॥ युग्मम् ।। ते सार्थपुरुषाः प्राप्तचेतना हृष्टमानसाः । उमयं श्रावकारण्यं वर्णयन्ति पदे पदे ॥ ३८८ ॥ उमय ! स्फारकारुण्य ! पुण्यपुण्यगुणोदधे! । तव प्रसादपीयूषात्सद्योऽमी जीविता वयम् ॥ ३८६ ।। किश्चिन्न तेऽस्ति दुःसाध्यं दुष्प्रापं च न किश्चन। येनेदृश्यः श्रियः प्राप्ता देवीसान्निध्यतस्त्वया ॥ ३६० ॥ यतःअङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकस्तु सुमेरुद्दढतरधर्मस्य पुरुषस्य ॥१॥ वभाषे श्रेष्ठिनः सूनुस्तानेवं गर्ववर्जितः । भो भद्राः ! धर्ममाहात्म्यं मनसोऽपि न गोचरे ॥ ३६१॥ यतः धर्मात् शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः सर्वापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः । धर्मो बन्धुरयान्धवः पृथुपथे धर्मः सुहृन्निश्चलः संसारोरुमरुस्थले सुरतरु स्त्येव धर्मात्परः ॥१॥ KXXXXXXXXXXXXXXXXXXXXXXXX ॥१७६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy