SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी पश्चमः प्रस्ताव: ॥१७८॥ EXXXXXXXXXXXXXXXXXXXXXXXX स्वस्वादूनि फलान्येतान्यास्वाद्य निवृ तो भव । एतदास्वादनादङ्गी यतः स्यानवयौवनः ॥ ३६६ ॥ अतीव जरती पूर्वमहमासं गतद्युतिः । फलादनेन सञ्जाता साम्प्रतं प्राप्तयौवना ॥ ३७० ॥ न शक्नोमि क्षणं स्थातुं विषयव्याकुलीकृता । त्वदङ्गसङ्गपीयूषयूषपानं विनाऽधुना ॥ ३७१ ॥ मन्मनोऽभीष्टसम्पत्त्या तवाभीष्टं भविष्यति । हेमरत्नाकरादीनां सम्प्राप्त्या करुणापर ।।। ३७२ ॥ आपद्यपि न दीनश्रीरवादीदुमयस्तदा । भद्रे ऽज्ञातफलास्वादनिषेधोऽस्ति मया कृतः॥३७३ ।। त्रिविधं त्रिविधेनाहं न समीहे परस्त्रियम् । शचीसञ्चारिसौभाग्यां किं पुनर्भवती ध्रुवम् ? ॥ ३७४ ॥ तमोद्वाराणि चत्वारि कथयन्ति मनीषिणः । अनन्तकायसंधाननिशाभुक्त्यन्ययोषितः ॥ ३७५ ॥ प्राणान्तेऽपि न कर्तव्या प्रतिपन्नव्रतक्षतिः । व्रतत्यागेन जन्तूनां पतनं नरकावटे ॥ ३७६ ॥ व्रतादप्यधिकं प्रायो धनं नीचो हि मन्यते। प्राणेभ्योऽपि गरीयस्त्वं व्रते दत्ते जनो महान् ।। ३७७ ।। इत्युक्तं तेन सा श्रुत्वा क्रोधाध्माता वनेचरी । विकृत्य भीषणं रूवं कर्तुं क्षोभमढौकत ।। ३७८ ॥ यथा यथा करोत्येषा क्षोभं कामातुराऽधिकम् । तथा तथाऽभवत्तस्य सद्धर्म मानसं दृढम् ।। ३७६ ।। अथ तं दृढधर्माणं सा विज्ञाय प्रशान्तहृत् । प्रत्यक्षीभूय दिव्याङ्गी गुणस्तुतिमिति व्यधात् ॥ ३८०॥ धन्यस्त्वमेव लोकेऽस्मिन् श्लाघ्यस्त्वं महतामपि । यस्येदृशं दृढं धर्म विपद्यपि मनोजनि ॥ ३८१॥ अटव्याः स्वामिनी देवी नाम्नाहं मृगवाहना । तव सत्त्वपरीक्षार्थमेतत्सर्व मया कृतम् ॥ ३८२ ॥ XXXXXXXXXXXXXXXXXXXXXXXXX ||१७८॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy