SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१८३॥ **** ********** धन्योऽयं शूरदेवाख्यो गृही ग्राह्यगुणः सताम् । चित्तवित्तसुपात्राणां योगो यस्येदृशोऽजनि ॥ २२ ॥ यतःकेसि च होइ चित्तं वित्तमन्ने सिमुभयमन्नेसिं । चित्तं वित्तं पत्तं तिन्निचि पुन्नस्स धन्नस्स ॥ १ ॥ पूर्वोपार्जितपुण्यानां विपाकोऽयं सतां मतः । श्रद्धापूर्वं सुपात्रेषु यद्दानं शुद्धवस्तुनः ॥ २३ ॥ शुभोदयो भावी निर्धनस्यापि मे कदा | पात्रदानोद्भवं येन फलमेवंविधं लभे ॥ २४ ॥ परं धनं विना तु दानधर्मो न शक्यते । वित्तायत्ता यतः प्रोक्ता गृहिणां सकला स्थितिः ॥ २५ ॥ यतः— मानं धनेनैव न सत्कुलेन कीर्तिर्धनेनैव न विक्रमेण । कान्तिर्धनेनैव न यौवनेन धर्मो धनेनैव न जीवितेन ॥ १ ॥ स्वपक्षेण विना वादं विलासान् यौवनं विना । दानलीलां विना लक्ष्मीं कुर्वन् यात्युपहास्यताम् ॥ २ ॥ ततो देशान्तरे गत्वा निर्माय च धनार्जनम् । करिष्ये पात्रदानेन कृतार्थं सधनं जनुः ॥ २६ ॥ aasil नायकीकृत्य साथैवाहं घनावहम् । धनार्थ भगलाहानं ययौ जनपदं कृती ॥ २७ ॥ सव्रजन् सार्थवाहेन समं प्राप्य क्रमादथ । अभिरामगुणग्रामं नाम्ना ग्रामं पलासकम् ॥ २८ ॥ त एव गृहिणः श्लाध्यास्तेषां जन्म फलेग्रहि । भक्त्या विधीयते पात्रदानं यै शुद्धवस्तुभिः || २ || तस्य सत्पात्रदानस्य कस्तवं वास्तवं विभुः । कतु स्याद्येन संसारी लोकद्वयसुखीभवेत् ॥ ३० ॥ ***** ****************** षष्ठः प्रस्तावः 1185311
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy