Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 179
________________ सम्यक्त्वकौमुदी पञ्चमः प्रस्ताव: ॥१७॥ KXXXXXXXXXXXXXXXXX रजनीभोजनं घोरश्वभ्रपातुकपातकम् । द्विदलेन समं तक्रमभक्ष्यान्यखिलान्यपि ॥ ३३१॥ दधि घस्रद्वयातीतं सर्वान्नं विकृतिं गतम् । निःशेषमज्ञातफलं वर्जयेदार्हताग्रणीः ॥ ३३२ ॥ त्रिभिर्विशेषकम् ॥ त्रिः श्रीसर्वज्ञपूजायां द्विरावश्यककर्मसु । यतमानो गृही सम्यग् याति वैमानिकालये ॥ ३३३ ॥ ततो जन्म जनानन्दि लब्ध्वा भूपकुलादिषु । रत्नत्रयं समाराध्य स सिद्धिसुखमश्नुते ॥ ३३४ ॥ यतःजेवि य गिहधम्मरया पूयादाणाइसीलसंपन्ना । संकाइदोसरहिआ होहिंति सुरा महिड्डीया ॥१॥ श्रुत्वैवं श्रेष्ठिनः सूनुः प्रसूनोज्ज्वलमानसः । चारित्रमोहनीयस्य क्षयोपशमयोगतः ॥ ३३५ ॥ सुश्राद्धधर्म जग्राह सम्यग्दर्शनपूर्वकम् । द्वादशवततंयुक्तं नैकाभिग्रहदुष्करम् ॥ ३३६ ॥ गुरुः कारुण्यवानेवं तस्मै शिक्षां तदा ददौ । भद्र ! भद्रशतश्रेणिप्रतिभूर्भाग्ययोगतः ॥ ३३७ ॥ भयो भावमले क्षीणे पथ्ये रुचिरिवामये । अलम्भि भवता धर्मः कल्दद्ररिव साम्प्रतम् ॥ ३३८ ॥ युग्मम् ॥ अयं नवनवैः पुण्यकार्यैराय ! जिनोदितैः । त्वया वृद्धिं परां नेयः सर्वाभीष्टफलप्रदः ॥ ३३६ ॥ तथेति प्रतिपद्यासौ वन्दित्वा स मुनीन् गुरून् । धर्मेण तन्मयीभावं बिभ्रत् शुभ्रमुखद्युतिः॥ ३४० ॥ पुनः प्रादर्भवत्स्नेहः स्वसुर्मन्दिरमासदत् । धर्मवन्धुतया तस्य वात्सल्यं विदधे तया ॥ ३४१ ॥ युग्मम् ।। तद्धर्मप्राप्तिमाकये समुद्रश्रेष्ठिनन्दिनी । हृष्टाऽकरोन्महश्रेणि पुरलोकाभिनन्दिनीम् ।। ३४२ ॥ पल्योपक्रमतस्तस्य व्यवहारं वितन्वतः । पुण्यानुभावतस्तस्य लाभः प्रववृधेऽधिकम् ।। ३४३ ।। XXXXXXXXXXXXXXXXXXXXXXXXE ॥१७॥

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220