________________
सम्यक्त्वकौमुदी
पञ्चमः प्रस्ताव:
॥१७॥
KXXXXXXXXXXXXXXXXX
रजनीभोजनं घोरश्वभ्रपातुकपातकम् । द्विदलेन समं तक्रमभक्ष्यान्यखिलान्यपि ॥ ३३१॥ दधि घस्रद्वयातीतं सर्वान्नं विकृतिं गतम् । निःशेषमज्ञातफलं वर्जयेदार्हताग्रणीः ॥ ३३२ ॥ त्रिभिर्विशेषकम् ॥ त्रिः श्रीसर्वज्ञपूजायां द्विरावश्यककर्मसु । यतमानो गृही सम्यग् याति वैमानिकालये ॥ ३३३ ॥ ततो जन्म जनानन्दि लब्ध्वा भूपकुलादिषु । रत्नत्रयं समाराध्य स सिद्धिसुखमश्नुते ॥ ३३४ ॥ यतःजेवि य गिहधम्मरया पूयादाणाइसीलसंपन्ना । संकाइदोसरहिआ होहिंति सुरा महिड्डीया ॥१॥ श्रुत्वैवं श्रेष्ठिनः सूनुः प्रसूनोज्ज्वलमानसः । चारित्रमोहनीयस्य क्षयोपशमयोगतः ॥ ३३५ ॥ सुश्राद्धधर्म जग्राह सम्यग्दर्शनपूर्वकम् । द्वादशवततंयुक्तं नैकाभिग्रहदुष्करम् ॥ ३३६ ॥ गुरुः कारुण्यवानेवं तस्मै शिक्षां तदा ददौ । भद्र ! भद्रशतश्रेणिप्रतिभूर्भाग्ययोगतः ॥ ३३७ ॥ भयो भावमले क्षीणे पथ्ये रुचिरिवामये । अलम्भि भवता धर्मः कल्दद्ररिव साम्प्रतम् ॥ ३३८ ॥ युग्मम् ॥ अयं नवनवैः पुण्यकार्यैराय ! जिनोदितैः । त्वया वृद्धिं परां नेयः सर्वाभीष्टफलप्रदः ॥ ३३६ ॥ तथेति प्रतिपद्यासौ वन्दित्वा स मुनीन् गुरून् । धर्मेण तन्मयीभावं बिभ्रत् शुभ्रमुखद्युतिः॥ ३४० ॥ पुनः प्रादर्भवत्स्नेहः स्वसुर्मन्दिरमासदत् । धर्मवन्धुतया तस्य वात्सल्यं विदधे तया ॥ ३४१ ॥ युग्मम् ।। तद्धर्मप्राप्तिमाकये समुद्रश्रेष्ठिनन्दिनी । हृष्टाऽकरोन्महश्रेणि पुरलोकाभिनन्दिनीम् ।। ३४२ ॥ पल्योपक्रमतस्तस्य व्यवहारं वितन्वतः । पुण्यानुभावतस्तस्य लाभः प्रववृधेऽधिकम् ।। ३४३ ।।
XXXXXXXXXXXXXXXXXXXXXXXXE
॥१७॥