Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्वकौमुदी
पश्चमः प्रस्ताव:
॥१६॥
KXXXXXXXXXXXXXXXXXX*******
शमशीलदयावन्तो जिताक्षा निष्परिग्रहाः । सम्यग्ज्ञानक्रियोयुक्ताः लभन्ते त्रिदशालयम् ॥ २६२ ॥ उन्मार्गदेशिनो मायारम्भार्तध्यानतत्पराः । अप्रत्याख्यानिनो मूढाः स्युस्तियेग्गतयोऽगिनः॥२६३॥ सन्मादेवाजेवोपेता अल्पारम्भपरिग्रहाः । देवपूजादयादानयुता यान्ति नृणां गतिम् ॥ २६४ ॥ निष्कषायाः शुक्ललेश्याः सर्वसङ्गपराङ्मुखाः। शुक्लध्यानजुषो जीवा लभन्ते मोक्षमक्षयम् ॥ २६५॥ ततः संवेगवान् राजा तनयं नयविक्रमम् । समहं स्वपदे न्यस्य संयमं समशिश्रियत् ॥२६६ ॥ राज्ञी पद्मावती श्रेष्ठिपत्नी पद्मावती तथा । पद्मश्रीप्रमुखा नायः प्रत्यपद्यन्त संयमम् ॥ २६७ ॥ बुद्धदासादयो जजुः श्रावकाः सुदृढाशयाः। जीवाजीवादितत्वज्ञा जिनधर्मप्रभावकाः॥२६८॥ पद्मसङ्घादयः प्रापुः सौगता विगतोदयाः । लोकेऽपभ्राजनां को हि मृषावाग न लघूभवेत् ॥ २६६ एतदध्यक्षतो वीक्ष्य मयाऽपि गुरुसन्निधौ । पञ्चातिचारसंशुद्धं सम्यक्त्वं नाथ ! संश्रितम् ॥ २७० ॥ इति पद्मलतावाक्यं श्रुत्वा सम्यक्त्ववासितम् । प्रिये ! सत्यमिदं सर्वमहद्दासाभिधोऽभ्यधात् ॥ २७१॥ गदन्ति स्म प्रियास्तस्य सप्तापि मुदिताशयाः । स्वामिन् ! श्रद्दध्महे सर्वमिदं सत्यतया वयम् ॥ २७२ ॥ श्रीमज्जिनेन्द्रधर्मस्य यतः चिन्तामणेरिव । अचिन्त्यो महिमा लोके मनोभीष्टैकसेवधेः ॥ २७३ ।। मिथ्यात्वतिमिरग्रस्तस्वान्ता कुन्दलताऽवदत् । कपोलकल्पनापूर्व जगी पद्मलता पुनः ॥ २७४ ॥ दध्युस्तदा धराधीशप्रमुखा हृदये निजे । अहो। मिथ्यात्वमूढत्वमस्त्यस्याः कीदृशं स्त्रियः॥ २७५ ॥
KXXXXXXXXXXXXXXXXXXXXXXXXX
॥१६॥

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220