Book Title: Samipya 2007 Vol 24 Ank 01 02
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir २. चित्रे निवेश्य परिकल्पित सत्वयोगा रुपोच्चये मनसा विधिना कृता नु । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुविभुत्वमनुचिन्त्य वपुश्व तस्याः ।। २.९ अभिज्ञानशाकुन्तलम् । अनाध्रातं रत्नं किसलयमलूनं कररु है रनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलभिव च तद्रुपमनद्यं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ २.१० अभिज्ञानशाकुन्तलम् । अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः। श्रृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यास जडः कथं नु विषय व्यावृत कौतूहलो, निर्मातुं प्रभवेन्मनोहरमिदं रुपं पुराणो मुनिः ॥ १-१० विक्रमोर्वशीयम् । यदच्छया त्वं सकृदप्यवन्धयोः पथि स्थिता सुन्दरि । यस्य नेत्रयोः । त्वया विना सोऽपि समुत्सुको भवेत् सखीजनस्ते किमुताद्रसौहृदः ॥ १-११ विक्रमोर्वशीयम् । दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः संक्षिप्तं निबिडोन्नतस्तनभरः पार्श्वे प्रमृष्टे इव । मध्य पाणिमितो नितम्ब जघनं पादवरालाङ्गली छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ २-६ मालविकाग्निमित्रम् । भाग्यास्तमयमिवाक्ष्णोर्हदयस्य महोत्सवावसानमिवा । द्वारापिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् ।। २-११ मालविकाग्निमित्रम् । हरस्तु किञ्चितपरिलुप्तधैर्यश्वन्द्रोदयारम्भ इवाम्बुराशिः । । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ ३-६७ कुमारसम्भवम् । ९. स न्यस्तचिह्नामपि राजलक्ष्मी तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ।। २.७ रघुवंशम् । * पाठा. राज्यलक्ष्मीम्। १०. धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यान्तमन्तःकरणैविशङ्कः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ २.११ रघुवंशम् । ११. वक्र पन्या यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दामस्फुरण चकितैस्तत्र पौराङ्गनानां लिलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २७ पूर्वमेघः * पाठा. स्फुरितचकितै. - मल्लिनाथ: * पाठा. वञ्चितः स्याः का. पा. कालिदास में दृष्टि सौन्दर्य ४९ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125