Book Title: Samipya 2007 Vol 24 Ank 01 02
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ગ્રંથાવલોકન
गुजरातनी मध्यकालीन संस्कृतहस्तप्रतोनी प्रशस्तिओ अने पुष्पिकाओनुं तलस्पर्शी अध्ययन : (गुर्जरी भाषा) ग्रन्थकत्री : डो. मनीषा निमिष भट्ट । प्रकाशक:- ध्रुविल निमीषकुमार भट्ट, सी-३९, मङ्गलं सोसायटी विभाग-३, घोडासर रोड, ईसनपुर, ३८००५०
केभ्यश्चन वर्षेभ्यः प्राक हस्तप्रतिशास्त्र परिचेतं भारतीयानाम् M.R.Katre विरचिता Introduction to Indian Textual Critisism (Pune 1954) नाम्नी कृतिरेकैवासीदभ्युपायः । ततः R.S.Shivaganeshamurthy farfarat Introduction to Manuscriptology (Sharada publication House Delhi 1996) ET कृतिहस्तप्रतिशास्त्रविद्यार्थिनां पाठ्यक्षेत्ररकं प्रविष्टा । अधुनाऽपि हस्तप्रतिशास्त्रक्षेत्रे विद्याथिभिः प्राधान्येन अधीयमाने कृती द्वे एते एव । द्वयोरपि कृत्योः हस्तप्रतीनामाधारेण ग्रन्थसंपादनं कथं करणीयमिति समग्रश एव प्रबोधितम् । परन्तु हस्तप्रतीनां स्वरूपपरिचायनं द्वयोरपि कृत्योः नैयून्येन कृतम् । यद्यपि हस्तप्रतिषु दृश्यमानानां दोषाणां विषये द्वयोरपि कृत्योविवेचितम् । ग्रन्थद्वयस्यास्य रचनानन्तरं बह्वयः कृतयो विषयेऽस्मिन् रचिताः । इङ्लीष् भाषायां संख्यातीता इति मन्ये । भारतीयासु भाषास्वपि बह्वयः । शोधपत्रिकासु विविधग्रन्थदृष्टपाठविवेचनमत्र प्रधानमेव स्थानमाकामति । परन्तु हस्तप्रतीनाम् अन्ते विद्यमानानि पुष्पिकावाक्यान्येवाधिकृत्य कुत्राप्यामूलचूलं विश्लेषणं न कृतमासीदेतासु रचनासु ।
एतां न्यूनतां परिहरति नवीनतया रचितो ग्रन्थः डा. मनीषावर्यायाः । एष ग्रन्थः ग्रन्थकाः पिएच्.डी. पदव्यै रचितः महानिबन्धः ।
अस्मिन् ग्रन्थे त्रीणि प्रकरणानि सन्ति । १. हस्तप्रतोनुं स्वरूप, ग्रन्थप्रशस्तिओ अने पुष्पिकाओ। २. संस्कृतप्रशस्तिओ अने पुष्पिकाओनं राजकीय महत्त्व तथा, ३. संस्कृतप्रशस्तिओ अने पुष्पिकाओनुं साहित्यिकदृष्टिए मूल्याङ्कन।
"१. हस्तप्रतोतुं स्वरूप, ग्रन्थप्रशस्तिओ अने पुष्पिकाओ" इति नाम्नि प्रथमे प्रकरणे भारतस्य इतिहासनिर्माणे साधनत्रयस्य प्राधान्येनाध्ययनस्यावश्यकता परिचायिता ।
"२. संस्कृतप्रशस्तिओ अने पुष्पिकाओन राजकीय महत्त्व" इति नामकं द्वितीयं प्रकरणम् अत्यन्तमेव आसक्तिदायकम् । पुष्पिकाणामध्ययनेन भारतीयचरित्रविषये बहवो विषया ज्ञायन्त इति शतश उदाहरणै रचयित्री सम्यक् प्रदर्शयति ।
"३. संस्कृतप्रशस्तिओ अने पुष्पिकाओ, साहित्यकदृष्टिए मूल्याङ्कन" इति नाम्नि तृतीये प्रकरणे सोलङ्कीराजानां कालो वस्तुतः प्राचीनगुर्जरदेशस्य सुवर्णकाल इत्युक्त्वा तस्मिन् काले न केवलं संस्कृतवाङ्मयस्य समृद्धि परन्तु प्राकृतभाषाया अपि वाङ्मयं विस्तृतैः साहित्यैः समेधितमिति विचारः सोदाहरणं निरूपितः । ।
ग्रन्थान्तेऽतितमः स्वारसिको भागस्तु, छन्दोविषयकः । पुष्पिकासु गोचराणां छन्दसाम् उदाहरणानि ग्रन्थकत्र्या सम्यक् प्रस्तुतानि । अतीव परिश्रमेण ग्रन्थक: Statistics अपि सिद्धीकृत्य तेषां छन्दसां प्रतिशतं परिमाणमपि दत्तवती । एतत् कियता श्रमेण क्रियत इति तादृशेषु कर्मसु लग्ना एव जानन्ति ।
ग्रन्थस्यानतिसाधारणं महत्त्वम् एतैरेव वाक्यैः स्फुटं ज्ञापिताः ।
समग्रस्यास्य ग्रन्थस्य इङ्गलीष्माषानुवादः संस्कृतभाषानुवादश्च करणीयः । तेनात्यमूल्यविषयजालसंपुटितस्य ગ્રંથાવલોકન
૧૧૩
For Private and Personal Use Only
Loading... Page Navigation 1 ... 115 116 117 118 119 120 121 122 123 124 125