Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 21
________________ प्रस्तावना । (२१) "इति""श्रीदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्कारे प्रमाणस्वरूपनिर्णयो नाम प्रथमः परिच्छेदः ॥१॥" इति पाठो दृश्यते, परन्तु परिच्छेदान्त उपसंहारोल्लेखभेदस्तु लिपिकारविहितोऽपि भवेद् , इति संभावनायाः संभवात् , सन्दिग्वत्वं, तं संदेहं 'प्रमाणनयतत्त्वालोकः' इतिरूपं ग्रन्थातर्निर्दिष्टं ग्रन्थकारपाठत्रयं निराकुर्वत् निश्चापयति यदस्य प्रमाणनयतत्त्वालोक इत्येव ग्रन्थकारसम्मतमभिधानमस्ति, नान्यदिति । ____ आग्रानगरस्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरस्य स्नाकरावतारिकाहस्तलिखितपुस्तकद्वयस्य प्रथमपरिच्छेदान्ते, तथा प्रमाणनयतत्त्वालोकमूलग्रन्थस्य लिखितपुस्तकस्य प्रथमपरिच्छेदान्ते चोपसंहारपङ्क्तिषु "श्रीप्रमाणनयतत्वालोके" इत्येव पाठो विद्यतेऽतो मूलग्रन्थकारतच्छिष्यलिखितपाठचतुष्टयेन संवादभूतेन युक्त्या च निर्बाधमिदं सिध्यति यत् प्रस्तुतग्रन्थस्य 'श्रीप्रमाणनयतत्त्वालोकः' इत्येव नामधेयं श्रीवादिदेवसूरिभिविहितम् , न 'प्रमाणनयतत्त्वालोकालङ्कारः' इति । किञ्च विद्वद्ग्रन्थनामानि प्रायः संक्षिप्तानि भवन्ति । __ या च प्रसिद्धिरलङ्कारान्तस्य जाता; सास्य ग्रन्थस्य श्रेष्ठतमत्वात् "अलङ्कारभूतोऽयं ग्रन्थो न्यायग्रन्थेषु" इतिलोकप्रतीतिहेतोः, लिपिकारस्य वा भ्रान्त्या समजनीति संभाव्यते । यथा-दिगम्बराणांतत्त्वार्थाधिगमसूत्रविधातुः श्रीउमास्वातिपादस्य श्रीउमास्वामित्वेन प्रसिद्धिर्माता; सा च बहुकालतो भ्रान्तिसंभवेति साधितं सप्रमाणं दिगम्बरपण्डितश्रीयुगलकिशोरादिमहाशयः, तद्वदत्रापि वेदितव्यमिति मामकी मतिः । ३१. अनेकान्तपत्रे, १ वर्षस्य, ५ किरणे पृ० २६९ ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177