Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतत्त्वालोके [२०३९-१० प्रतीतसाध्यधर्मविशेषणः निराकृतसाध्यधर्मविशेषणः, अनमीप्सितसाध्यधर्मविशेषणश्चेति त्रयः पक्षाऽऽभासा इत्यर्थः । अप्रतीतानिराकृताभीप्सितसाध्यधर्मविशिष्टधर्मिणां सम्यक्पक्षत्वं प्रागुपदर्शितम् ॥ ३८ ॥ प्रतीतसाध्यधर्मविशेषणो यथा-आर्हतान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव
इत्यादिः ॥ ३९॥ जैनान् प्रति समस्ति जीवः' इत्यवधारणार्थ कैवकाररहितं वाक्यं यदा कश्चित् प्रयुक्ते तदा तद्वचनं सिद्धसाधनापरपर्यायेण प्रतीतसाध्यधर्मविशेषणदोषेण दूषितं भवति, जैनैश्च तावदनेकान्तात्मकं जीवादितत्त्वमङ्गीकृतमेवेति तान् प्रति जीवास्तित्वसाधनं सिद्धसाधनमेवेति भावः ॥ ३९ ॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानाऽऽगमलोकस्ववचनादिभिः साध्यधर्मस्य निरा
करणादनेकपकारः ॥ ४० ॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषगः, अनुमाननिराकृतसाध्यधर्म विशेषणः, आगमनिराकृतसाध्यवर्मविशेषणः, लोकनिराकृतसाध्यधर्मविशेषणः, स्ववचननिराकृतसाध्यधर्मविशेषणः, मादिपदात् स्मरणनिराकृतसाध्यधर्मविशेषणः, प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणः, तर्कनिराकृत
१ तृतीयस्मिन् परिच्छेदे १४ सूत्रे, २९ पृष्ठे । सं० २. इत्यादि कख । ३. निराकृतस्वाद ख ।

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177