Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
स०१०] मष्टमः परिच्छेदः निर्णिनीषुः, ३ परत्र तत्वनिर्णिनीषुझायोपशमिकज्ञानशाली, ४ परत्र तत्त्वनिर्णिनीषुकेवली चेति चत्वारो भेदाः । तत्र यद्यपि आरम्भकप्रत्यारम्भकयोः परस्परवादे षोडश भेदाः प्राप्नुवन्ति, तथाहि
१ जिगोषोः जिगीषुणा, २ स्वात्मनि तत्त्वनिर्णिनीषुणा, ३ परत्र तत्त्वनिर्णिनीषुक्षायोपशमज्ञानशालिना, ४ परत्र तत्त्वनिर्णिनीषुकेवलिना चेति चत्वारः । __ एवं स्वात्मनि तत्वनिर्णिनीषोः, ५ जिगीषुणा, ६ स्वात्मनि तत्वनिर्णिनीषुणा, ७ परत्र तत्वनिर्णिनीषुक्षायोपशमज्ञानशालिना,
८ परत्र तत्त्वनिर्णिनीषुकेवलिना चेति चत्वारः । एवमेव परत्र तत्वनिर्णिनीषुक्षायोपशमिकज्ञानशालिनः। परत्र तत्त्वनिर्णिनीषुकेवलिनश्च जिगीषुप्रभृतिभिश्चतुर्भिस्सह मिलित्वा अष्टौ इति षोडशभेदाः। तथापि
१ जिगीषोः स्वात्मनि तत्त्वनिणिनीषुणा, २ स्वात्मनि तत्वनिर्णिनीषोर्जिगीषुणा, ३ स्वात्मनि तत्त्वनिर्णिनीषोः स्वात्मनि तत्वनिर्णिनीषुणा,
४ केवलिनः केवलिना च सह वादो न सम्भवतीति षोडशभेदेभ्यश्चतुरो भेदान् पातयित्वा द्वादशैव भेदा अवशिष्यन्ते ॥ ९ ॥ तत्र प्रथमे प्रथम-तृतीय-तुरीयाणां चतुरङ्ग एव,
अन्यतमस्याप्यङ्गस्यापाये जय-पराजयव्यवस्थादिदौःस्थ्याऽऽपत्तेः॥१०॥

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177