Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 170
________________ १२६ प्रमाणनयतत्त्वालोके [सू० ११-१२ __अयमर्थः-तत्र चतुषु प्रारम्भकेषु वादिषु मध्ये यदा जिगीषुः प्रारम्भको वादी भवति, एवं जिगीषुः, परत्र तत्त्वनिर्णिषुक्षायोपशमज्ञानशाली, परत्र तत्त्वनिर्णिनीषुकेवली वा प्रतिवादी भवति तदा वादिप्रतिवादि-सभ्य-सभापतिलक्षणश्चतुरङ्ग एव वादो भवति । एषु अन्यतमस्याप्यपाये-अभावे सति जय-पराजयव्यवस्था एव न स्यात् , वादिनो जिगीषुत्वेन शाठ्यकलहादिसम्भवात् ॥ १० ॥ द्वितीये तृतीयस्य कदाचिद् द्वयङ्गः कदाचित् व्यङ्गः ॥११॥ द्वितीये--स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि सति, तृतीयस्य परत्र तत्त्वनिर्णिनीपुक्षायोपशमज्ञानशालिनः, कदाचिद् द्वयङ्गः-द्वे वादिप्रतिवादिलक्षणे अङ्गे यस्य स द्वयङ्गो वादो भवति । कदाचित् व्यङ्गःवादि-प्रतिवादि-सभ्यलक्षणस्यङ्गो वा वादो भवति । अयमर्थः---यदा परत्र तत्त्वनिर्णिषुझायोपशमज्ञानशाली प्रतिवादी स्वयमेव वादिनि जय-पराजयनिरपेक्षतया तत्त्वनिर्णयं कर्तुं समर्थः, तदा इतरस्य सभ्य-सभापतिरूपस्याङ्गद्वयस्याभावाद् द्वयङ्ग एव वादो भवति । यदा तु कृतप्रयत्नेनापि प्रतिवादिना वादिनि तत्त्वनिर्णयो न कर्तुं शक्यते तदा तन्निर्णयार्थ सभ्यानामपेक्ष्यमाणत्वात् त्र्यङ्गो वादो भवति । स्वपरोपकारायैव प्रवृत्तयोरनयोः शाठ्यकलहाऽऽद्यसम्भवेन सभापतेरनपेक्षणीयत्वादिति भावः ॥ ११ ॥ तत्रैव द्वयङ्गस्तुरीयस्य ॥१२॥ तत्रैव-त्वात्मनि तत्त्वनिर्णिनीषौ वादिनि सति, तुरीयस्य परत्र

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177