Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतखालोके
[ ०२२ - २३
वादि-प्रतिवादिभ्यां सभ्यैश्च कथितस्यावधारणं, कलह निराकरणम्, आदिना पारितोषिक वितरणादिकं चास्य सभापतेः कर्म-कर्तव्यम् ॥ २१ ॥ सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् ॥ २२ ॥ जिगीषुणा जिगीषुभ्यां जिगीषुभिर्वा सह वर्तत इति सजिगीषुकेऽस्मिन् वादे, यावत् सभ्या अपेक्षन्ते स्फूर्ती सत्यां प्रतिपादनोत्साहे सति, तावद् वक्तव्यम् ॥ २२ ॥
१३०
उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यम् || २३ ॥
उभयोः - वादि-प्रतिवादिनोस्तत्त्वनिर्णीर्न षुत्वे यावता तत्त्वनिर्णयो भवति तावत् स्फूर्ती सत्यां वक्तव्यम्, अनिर्णये वा यावत्स्फुरति तावद्वक्तव्यम् ॥ २३ ॥
छात्राणामुपकाराय रामगोपालशर्मणा ।
वसु- सिध्यङ्क - भूम्यन्दे (१९८८) टिप्पणीयं विनिर्मिता ॥ इतिबालबोधिन्याख्यया टिप्पण्या विभूषिते श्रीवादिदेवसरिसं प्रमाणनयतत्वाऽऽलोके बाद यादि-सभ्यसभापति स्वरूप निर्णायको नामाष्टमः परिच्छेद', [ तत्समाप्तौ समाप्तोऽयं ग्रन्थः । ] ॥

Page Navigation
1 ... 172 173 174 175 176 177