Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
१२८
प्रमाणनयतत्त्वालोके [स. १८ __वादिना स्वपक्षस्य स्थापनं प्रतिवादिपक्षस्य खण्डनं चेति द्वितयं कर्तव्यम् । एवं प्रतिवादिनापि स्वपक्षस्थापनं वादिपक्षप्रतिक्षेपश्चेति द्वेयं कर्तव्यम् । अन्यतरस्याप्यभावे तत्त्वनिर्णय एव न स्यादिति भावः । तदुक्तम्" मानेन पक्ष-प्रतिपक्षयोः क्रमात् प्रसाधनक्षेपणकेलिकर्मठौ ।
वादेऽत्र मल्ल-प्रतिमल्लनीतितो वदन्ति वादि-प्रतिवादिनौ बुधाः ।। ॥ १७ ॥ वादिप्रतिवादिसिद्वान्ततत्वनदीष्णत्व-धारणाबाहुश्रुत्यप्रतिभा-शान्ति-माध्यस्थ्यैरुभयाभिमताः
सभ्याः ॥ १८ ॥
१. स्वपक्षस्थापनकाले वादिना साधनमुक्त्वा, संभाव्यमानतद्दोषोद्वारोऽपि स्वप्रौढत्वप्रदर्शनाय कार्यः । तथा चोकम्
" स्वपक्षसिद्धये वादी साधनं प्रागुदीरयेत् ।
यदि प्रौढिः प्रिया तत्र दोषानपि तदुद्धरेत् ॥" २. “ दूषणं परपक्षस्य स्वपक्षस्य च साधनम् ।
प्रतिवादी द्वयं कुर्याद् भिन्नाऽभिन्न प्रयत्नतः ॥" प्रतिवादिदत्तदोषेषु वादिहेतोविरुद्धहेत्वाभासत्वप्रदर्शनं मुख्यदोषः, तत्प्रदर्शनेन प्रतिवादी वादिनमवश्यं झटिति च जयतितराम् । तथा च कथितवान् दर्शनान्तरोद्भावितानेककलको भट्टारकाकलङ्कः
“ विरुद्धं हेतुमुद्भाव्य वादिन जयतीतरः । आभासान्तरमुद्राव्य पक्षसिद्धिमपेक्षते ॥"
-संशोधकः मुनिहिमांशुविजयः ।

Page Navigation
1 ... 170 171 172 173 174 175 176 177