SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १२८ प्रमाणनयतत्त्वालोके [स. १८ __वादिना स्वपक्षस्य स्थापनं प्रतिवादिपक्षस्य खण्डनं चेति द्वितयं कर्तव्यम् । एवं प्रतिवादिनापि स्वपक्षस्थापनं वादिपक्षप्रतिक्षेपश्चेति द्वेयं कर्तव्यम् । अन्यतरस्याप्यभावे तत्त्वनिर्णय एव न स्यादिति भावः । तदुक्तम्" मानेन पक्ष-प्रतिपक्षयोः क्रमात् प्रसाधनक्षेपणकेलिकर्मठौ । वादेऽत्र मल्ल-प्रतिमल्लनीतितो वदन्ति वादि-प्रतिवादिनौ बुधाः ।। ॥ १७ ॥ वादिप्रतिवादिसिद्वान्ततत्वनदीष्णत्व-धारणाबाहुश्रुत्यप्रतिभा-शान्ति-माध्यस्थ्यैरुभयाभिमताः सभ्याः ॥ १८ ॥ १. स्वपक्षस्थापनकाले वादिना साधनमुक्त्वा, संभाव्यमानतद्दोषोद्वारोऽपि स्वप्रौढत्वप्रदर्शनाय कार्यः । तथा चोकम् " स्वपक्षसिद्धये वादी साधनं प्रागुदीरयेत् । यदि प्रौढिः प्रिया तत्र दोषानपि तदुद्धरेत् ॥" २. “ दूषणं परपक्षस्य स्वपक्षस्य च साधनम् । प्रतिवादी द्वयं कुर्याद् भिन्नाऽभिन्न प्रयत्नतः ॥" प्रतिवादिदत्तदोषेषु वादिहेतोविरुद्धहेत्वाभासत्वप्रदर्शनं मुख्यदोषः, तत्प्रदर्शनेन प्रतिवादी वादिनमवश्यं झटिति च जयतितराम् । तथा च कथितवान् दर्शनान्तरोद्भावितानेककलको भट्टारकाकलङ्कः “ विरुद्धं हेतुमुद्भाव्य वादिन जयतीतरः । आभासान्तरमुद्राव्य पक्षसिद्धिमपेक्षते ॥" -संशोधकः मुनिहिमांशुविजयः ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy