SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ २० १३-१७] अष्टमः परिच्छेदः १२७ तत्त्वनिर्गिनीषोः केवलिनः, द्वयङ्गः-वादि-प्रतिवादिलक्षणो द्वयन एव वादो भवतीत्यर्थः ॥ १२ ॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ तृतीये-परत्र तत्त्वनिर्णिनीषो क्षायोपशमज्ञानशालिनि वादिनि सति, जिगीषोः प्रतिवादिनश्चतुरङ्गः, स्वात्मनि तत्त्वनिर्णिनीषोः, परत्र तत्त्वनिर्णिनीषोः, क्षायोपशमज्ञानशालिनश्च प्रतिवादिनो द्वयङ्गः,कदाचित् त्र्यङ्गः परत्र तत्वनिर्णिनीषोः केवलिनो द्वयङ्गः एव वादो भवतीत्यर्थः ॥ १३ ॥ तुरीये प्रथमादीनामेवम् ॥ १४ ॥ परत्र तत्वनिर्णिनीषो केवलिनि वादिनि सति प्रथमस्य-जिगीषोः चतुरङ्गो वादो भवति । तथाचोक्तम्" प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् । संचिन्त्य तस्मादमुमादरण प्रत्यारभेत प्रतिभाप्रगल्भः ॥" इति ॥ १४ ॥ वादि-प्रतिवादि-सभ्य-सभापतयश्चत्वार्यङ्गानि ॥ १५ ॥ वादस्येति शेषः ॥ १५ ॥ प्रारम्भक-प्रत्यारम्भकावेव मल्ल-प्रतिमल्लन्यायेन वादिपतिवादिनौ ॥ १६ ॥ यौ प्रारम्भक-प्रत्यारम्भकपदाभ्यां पूर्वमुक्को तावेव वादिप्रतिवादिशब्दाभ्यां व्यपदिश्यते ॥ १६ ॥ प्रमाणतः स्वपक्षस्थापन-प्रतिपक्षपतिक्षेपावनयोः कर्म ॥ १७॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy