Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
२० १३-१७] अष्टमः परिच्छेदः
१२७ तत्त्वनिर्गिनीषोः केवलिनः, द्वयङ्गः-वादि-प्रतिवादिलक्षणो द्वयन एव वादो भवतीत्यर्थः ॥ १२ ॥
तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥
तृतीये-परत्र तत्त्वनिर्णिनीषो क्षायोपशमज्ञानशालिनि वादिनि सति, जिगीषोः प्रतिवादिनश्चतुरङ्गः, स्वात्मनि तत्त्वनिर्णिनीषोः, परत्र तत्त्वनिर्णिनीषोः, क्षायोपशमज्ञानशालिनश्च प्रतिवादिनो द्वयङ्गः,कदाचित् त्र्यङ्गः परत्र तत्वनिर्णिनीषोः केवलिनो द्वयङ्गः एव वादो भवतीत्यर्थः ॥ १३ ॥
तुरीये प्रथमादीनामेवम् ॥ १४ ॥ परत्र तत्वनिर्णिनीषो केवलिनि वादिनि सति प्रथमस्य-जिगीषोः चतुरङ्गो वादो भवति । तथाचोक्तम्" प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् ।
संचिन्त्य तस्मादमुमादरण प्रत्यारभेत प्रतिभाप्रगल्भः ॥" इति ॥ १४ ॥ वादि-प्रतिवादि-सभ्य-सभापतयश्चत्वार्यङ्गानि ॥ १५ ॥ वादस्येति शेषः ॥ १५ ॥ प्रारम्भक-प्रत्यारम्भकावेव मल्ल-प्रतिमल्लन्यायेन
वादिपतिवादिनौ ॥ १६ ॥ यौ प्रारम्भक-प्रत्यारम्भकपदाभ्यां पूर्वमुक्को तावेव वादिप्रतिवादिशब्दाभ्यां व्यपदिश्यते ॥ १६ ॥ प्रमाणतः स्वपक्षस्थापन-प्रतिपक्षपतिक्षेपावनयोः
कर्म ॥ १७॥

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177