Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
१२४
प्रमाणनयतत्त्वालोके
[स०५-९
अयं च द्वेधा-स्वात्मनि परत्र च ॥ ५॥ 'अयं च-तत्त्वनिणिनीषुः, द्वेधा-द्विप्रकारः, स्वाऽऽत्मनि परत्र च । कश्चित् तत्त्वेषु सन्देहात् स्वात्मनि तत्त्वनिर्णयमिच्छति, कश्चित् तु परोपकारैकपरायणतया परत्र-अन्याऽऽत्मनि तत्त्व निर्णयमभिकाङ्क्षतीति ॥५॥
आधः शिष्यादिः ॥६॥ आद्यः - स्वात्मनि तत्वनिर्णिनीषुः शिष्यादिः । आदिपदेन मित्रादयो ग्राह्याः ॥ ६ ॥
द्वितीयो गुर्वादिः ॥ ७ ॥ द्वितीयः-परत्र तत्वनिर्णिनीषुः ॥ ७ ॥ अयं द्विविधः-क्षायोपशमिकज्ञानशाली केवली च
अयं परत्र तत्वनिर्णिनीषुर्गुर्वादिः, द्विविधः-द्विप्रकारः । ज्ञानावरणीयस्य कर्मणः क्षयोपशमेनोत्पन्नं यत् मति-श्रुतावधि-मन:पर्यायरूपं ज्ञानं यस्यास्ति स क्षायोपशमिक ज्ञानशाली, एकः । ज्ञानावरणीस्य कर्म गः क्षयेणोत्पन्नं यत् केवलज्ञानं तद्वान् केवली, द्वितीयः । तदेवं चत्वारः प्रारम्भका वादिनः-१ जिगीषुः, २ स्वात्मनि तत्त्वनिर्णिनीषुः, ३ परत्र तत्त्वनिर्णिनीषुक्षायोपशमज्ञानशाली, ४ परत्र तत्वनिर्णिनीषुकेवली चेति ॥ ८ ॥
एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥९॥ एतेन-प्रारम्भकभेदप्रभेदप्रतिपादनेन, प्रत्यारम्भकोऽपि व्याख्यातःप्रतिवादिनोऽपि भेद-प्रभेदा वर्णिता एवेत्यर्थः ।
एवं च प्रत्यारम्भकस्यापि, १ जिगीषुः, २ स्वात्मनि तत्व

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177