Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
अष्टमः परिच्छेदः । विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधन-दूषणवचनं वादः
॥१॥ एकाधिकरणैककालयोविरुद्धयोधर्मयोर्मध्यादेकधर्मव्यवच्छेदेन , एकस्य-कथञ्चिन्नित्यत्वस्य एकान्तनित्यत्वस्य वा धर्मस्य, व्यवच्छेदेननिराकरणेन, स्वीकृततदन्यधर्मस्य कथञ्चिन्नित्यत्वस्य वा व्यवस्थापनार्थ, साधन-दूषणवचनं- स्वपक्षस्य साधनवचनं, परपक्षस्य च दूषणवचनं वाद इत्यभिधीयते ॥ १ ॥
प्रारम्भकश्वात्र जिगीषुः तत्वनिर्णिनीषुश्च ॥२॥
अत्र-वादे । प्रारम्भकः-वादस्य प्रारम्भकः-वादीति यावत् । जिगीषुः-ज्येच्छावान् , तत्वनिर्णिनीषुश्च-तत्त्वनिर्णयेच्छावांश्च भवतीति शेषः ॥ २॥ स्वीकृतधर्मव्यवस्थापनार्थ साधन-दूषणाभ्यां परं
पराजेतुमिच्छजिगीषुः ॥ ३॥ स्वीकृतो यो धर्मः कथञ्चिन्नित्यत्वादिस्तस्य व्यवस्थापनार्थ साधनदूषणाभ्यां स्वपक्षसाधनेन परपक्षदूषणेन च, परं-प्रतिवादिनं पराजेतुमिच्छुजिगीषुः ॥ ३॥
तथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्वनिर्णिनीषुः ॥४॥
तथैव-स्वीकृतधर्मव्यवस्थापनार्थ, साधन-दूषणाभ्यां कथञ्चिन्नित्यत्वादिस्वरूपं तत्त्वं प्रतिष्ठापयितुमिच्छुस्तत्त्वनिर्णिनीषुः ॥ ४ ॥

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177