Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 166
________________ १२२ प्रमाणनयतत्त्वालोके [सू०५७ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञान-क्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः॥ ५७ ॥ तस्य-निर्दिष्टस्वरूपस्याऽऽत्मनः, उपात्तपुंस्त्रीशरीरस्य गृहीतपुरुषस्त्रीशरीरस्य । इदं विशेषणं स्त्रीनिर्वाणद्वेषिणां दिगम्बराणां मतमत्यसितुं, नपुंसकस्य मोक्षाऽभावज्ञापनार्थं च । “सम्यग्ज्ञान-क्रियाभ्याम्" इतिद्वन्द्वेन सम्यग्ज्ञान-क्रिययोः समुचित्य कारणत्वं प्रत्येकस्येति प्रदर्शि-TAK तम् । सम्यग्ज्ञानपदेनैव सम्यग्दर्शनस्यापि प्राप्तत्वात् पृथक्त्वेन न निदर्शितम् । ज्ञान-क्रिययोः सम्यक्त्वविशेषणप्रदानेन मिथ्याज्ञानपूर्विकायाः कन्दमूलादिभक्षणरूपाया वा क्रियाया मोक्षकारणत्वं निरस्तं भवति । " कृत्स्नकर्मक्षयस्वरूपा सिद्धिः " इत्यनेन नैयायिकाभिमतज्ञानादिगुणोच्छेदरूपायाः सिद्धेनिरासः ॥ ५७ ॥ इति बालबोधिन्याख्यया टिप्पण्या विभूषिते श्रीवादिदेव सूरिसंहब्धे श्रीप्रमाणानयतत्वाऽऽलोके नयतदाभासाऽऽत्मस्वरूपनिर्णायको नाम सप्तमः परिच्छेदः । १. किञ्चित्कर्मावशेषेऽपि मोक्षो न भवितुमर्हतीत्यर्थमवलम्ब्यैव निम्नलिखितो मदीयः श्लोक उदितः"तृष्णासमाप्तिर्जगतां भवेद् यदि शुष्यन्ति हेतुं च विनेत्र सागराः। सदागतिश्चेत् स्थिरतां भजेत् सदा मोक्षस्तदा कर्मविनाशनाद् विना ॥"

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177