Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतवालो के [ स० ५४-५५
यथा प्रमाणवाक्यं विधि- प्रतिषेधाभ्यां प्रवर्तमानं सप्तभङ्गीमनुगच्छति, तथैव नयवाक्यमपि स्वविषये - स्वप्रतिपाद्ये प्रवर्तमानं विधिप्रतिषेधाभ्यां ——— परस्परविभिन्नार्थं नययुग्मसमुत्थविधि-निषेधाभ्यां कृत्वा सप्तभङ्गत्वमनुगच्छति ॥ ५३ ॥
१२०
प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४ ॥
अयमर्थः यथा प्रमाणात् प्रमाणकलं भिन्नाभिन्नं, तथैव नयानयफलमपि भिन्नाभिन्नमेव । यथा प्रमाणस्याऽनन्तर्येण फलं वस्त्वज्ञाननिवृत्तिः, तथैव नयस्यापि ववंशाज्ञाननिवृत्तिः फलम् । यथा प्रमाणस्य पारम्पर्येण हानोपादानोपेक्षा बुद्धयः फलं, तथा नयस्यापि वस्त्वं शविषय कहानोपादानोपेचाबुद्धः फलमिति प्रमाणवन्नयस्यापि फलं व्यवस्थापनीयम् ॥ ५४ ॥
प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ।। ५५ ।।
'प्रत्यक्षादि ' इत्यत्राऽऽदिपदेन अनुमानादीनां संग्रहः । तत्र प्रत्यक्षेण तावद् ' अहं सुखी' ' अहं दुःखी' इत्यादिप्रतीत्या सुखाद्याधारतयाऽहं प्रत्ययगोचरः शरीरादिविलक्षण आत्मा सिध्यति । अनुमानेन यथा -चैतन्यं तन्वादिविलक्षणाऽऽश्रयाश्रितम्, तत्र (शरीरादिषु) बाघ - कोपपत्तौ सत्यां कार्यत्वान्यथानुपपत्तेः । न तावदयं हेतुर्विशेष्याऽसिद्धः, प्रार्थ्यन्ते मया यत्ते नयसप्तभङ्गोत्र वनविधि स्पष्टतया प्रकाशयेयुः । " स्यात् "
66
एव " इत्यनयोः प्रयोगो नयसप्तभङ्गयां विधेयो न वा ? विधेयश्चेत् को विशेषस्तर्हि प्रमाणनय सप्तभङ्गवचनप्रकारयोः ? न चेद् विधेयस्तदा कमा युक्या ? कस्माद् वा प्रमाणात् ? इत्यादीनि शङ्कास्थानान्यवश्यं समाधेयानि समाहितबुद्धिभिः । -सं०

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177