Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 162
________________ ११८ प्रमाणनयतत्वालाके [सू०४४-१९ एतेषु चत्वारः प्रथमे, अर्थनिरूपणप्रवणत्वादर्थ नयाः॥४४॥ एतेषु-नैगमादिषु सप्तसु नयेषु । प्रथमे-आद्याः ॥ ४४ ।। शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४५॥ पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परि मितविषयः ॥४६॥ प्रचुरगोचरः-अधिकविषयावगाही ॥ ४६॥ सन्मात्रगोचरात् संग्रहाद् नैगमो भावाभावभूमि कत्वाद् भूमविषयः ॥ ४७॥ संग्रहनयो हि सन्मात्रविषयत्वाद् भावावगाह्येव, नैगमस्तु भावाभावविषयवादुभयावगाहीति बहुविषयः ॥ ४७ ।। सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्त सत्समूहोपदर्शकत्वाद् बहुविषयः ॥४८॥ व्यवहारो हि कतिपयान् सत्वविशिष्टान् पदार्थान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु समरतं सद्विशिष्टं वस्तु प्रकाशयतीति भूमविषयः ॥४८॥ वर्तमानविषयाहजुसूत्राद् व्यवहारस्त्रिकालविषयाव लम्बित्वादनल्पार्थः ॥ ४९ ॥ १. शेषास्त्रयः ख

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177