Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
१०२ प्रमाणनयतत्त्वालोके [स्० ७८-८१ अनित्यः शब्दः, कृतकत्वाद, आकाशवदित्य
प्रदर्शितव्यतिरेकः ॥ ७८ ॥ यद्यप्यत्र 'यदनित्यं न भवति तत् कृतकमपि न भवति' इति न्यतिरेकव्याप्तिर्विद्यते तथापि सा वादिना स्ववचनेन न प्रदर्शितेत्यप्रदशितव्यतिरेक इत्यर्थः ॥ ७८ ॥
अनित्यः शब्दः, कृतकत्वात् , यदकृतकं तन्नित्यं,
यथा-आकाशमिति विपरीतव्यतिरेकः ॥७९॥
अत्र 'यन्नित्यं तदकृतकम्' इति व्यतिरेके प्रदर्शनीये "यदकृतकं तन्नित्यम्" इति वैपरीत्येन प्रदर्शित इति विपरीतव्यतिरेकः ॥ ७९ ॥ अथोपनयनिगमनाऽऽभासौ प्रदर्शयन्तिउक्तलक्षणोल्लङ्गनेनोपनय-निगमनयोर्वचने
तदाभासौ ॥ ८० ।। "हेतोः साध्यधर्मिण्युपसंहरणमुपनयः" [॥३-४९॥, पृ० ३८] इति उपनयस्य लक्षणम् । “साध्यधर्मस्य पुनर्निगमनम्" [॥ ३-५१॥ पृ० ३९ ] इति निगमनस्य च लक्षगं पूर्वमुक्तं तदुल्लचनेन वचने, तद्वैपरीत्येन कथने तदाभासौ-उपनयाऽऽमास-निगमनाऽऽभासौ भवत इति ।। ८० ॥
यथा-परिणामी शब्दः, कृतकलाद् , यः कृतकः स परिणामी, यथा कुम्भ इत्यत्र परिणामी च शब्द
इति, कृतकश्च कुम्भ इति च ।। ८१॥ अत्रानुमाने, ‘कृतकश्च शब्दः' इत्याकारकं साध्यधर्मिणि साधन१. तन्नित्यदृष्टं यथा ख ।

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177