SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १०२ प्रमाणनयतत्त्वालोके [स्० ७८-८१ अनित्यः शब्दः, कृतकत्वाद, आकाशवदित्य प्रदर्शितव्यतिरेकः ॥ ७८ ॥ यद्यप्यत्र 'यदनित्यं न भवति तत् कृतकमपि न भवति' इति न्यतिरेकव्याप्तिर्विद्यते तथापि सा वादिना स्ववचनेन न प्रदर्शितेत्यप्रदशितव्यतिरेक इत्यर्थः ॥ ७८ ॥ अनित्यः शब्दः, कृतकत्वात् , यदकृतकं तन्नित्यं, यथा-आकाशमिति विपरीतव्यतिरेकः ॥७९॥ अत्र 'यन्नित्यं तदकृतकम्' इति व्यतिरेके प्रदर्शनीये "यदकृतकं तन्नित्यम्" इति वैपरीत्येन प्रदर्शित इति विपरीतव्यतिरेकः ॥ ७९ ॥ अथोपनयनिगमनाऽऽभासौ प्रदर्शयन्तिउक्तलक्षणोल्लङ्गनेनोपनय-निगमनयोर्वचने तदाभासौ ॥ ८० ।। "हेतोः साध्यधर्मिण्युपसंहरणमुपनयः" [॥३-४९॥, पृ० ३८] इति उपनयस्य लक्षणम् । “साध्यधर्मस्य पुनर्निगमनम्" [॥ ३-५१॥ पृ० ३९ ] इति निगमनस्य च लक्षगं पूर्वमुक्तं तदुल्लचनेन वचने, तद्वैपरीत्येन कथने तदाभासौ-उपनयाऽऽमास-निगमनाऽऽभासौ भवत इति ।। ८० ॥ यथा-परिणामी शब्दः, कृतकलाद् , यः कृतकः स परिणामी, यथा कुम्भ इत्यत्र परिणामी च शब्द इति, कृतकश्च कुम्भ इति च ।। ८१॥ अत्रानुमाने, ‘कृतकश्च शब्दः' इत्याकारकं साध्यधर्मिणि साधन१. तन्नित्यदृष्टं यथा ख ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy