________________
सू०७६-७७] षष्ठः परिच्छेदः
अत्रानुमाने साधनं रागादिमत्त्वं, तद्वयतिरेकस्य रागादिमत्त्वाभावस्य दृष्टान्ते शौद्धोदनौ संदिग्धत्वात् संदिग्धसाधनव्यतिरेक इति ॥७॥ न वीतरागः कपिलः, करुणाऽऽस्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वात् , यस्तु वीतरागः स करुणाऽऽस्पदेषु परमकृपया समर्पितनिनपिशितशकलः, तद्यथा तपनबन्धुरिति संदिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागाभावस्य करुणाऽऽस्पदेष्वपि परमकृपयाऽनर्पितनिपिशितशकलवस्य
च व्यावृत्तेः संदेहात् ॥ ७६ ॥ अत्रानुमाने वीतरागत्वाऽभावः साध्यः । “करुणाऽऽस्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वात्" इति हेतुः । “यथा तपनबन्धुः" इति वैधर्म्यदृष्टान्तः, तत्र दृष्टान्ते तपनबन्धी सुगते साध्यव्यतिरेकस्य वीतरागत्वस्य, साधनव्यतिरेकस्य करुणाऽऽस्पदेष्वपि परमकृपयाऽर्पितनिजपिशितशकलत्वस्य च संदिग्धत्वात् संदिग्वोभययतिरेक इत्यर्थः ॥७६॥ न वीतरागः कश्चिद् विवक्षितः पुरुषः, वक्तृवात् , यः पुनर्वीतरागो न स वक्ता, यथोपलखण्ड
इत्यव्यतिरेकः ॥ ७७ ॥ यद्यपि दृष्टान्ते उपलखण्डे-पाषाणे साध्याऽभावो वीतरागत्वलक्षणः, साधनाऽभावो वक्तृत्वाभावलक्षगश्च वर्तेते, तथापि नहि 'यत्र वीतरागत्वं तत्र तत्र वक्तृत्वाभावः' इत्याकारिका व्यतिरेकल्याप्तिः समस्तीत्यन्यतिरेकदृष्टान्ताऽऽभास इत्यर्थः ।। ७७ ॥
१. रेकः तपन स।