SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०० प्रमाणनयतत्त्वालोके [२०७३-७५ अत्र लैङ्गिकमिति वैधHदृष्टान्तत्वेनाभिमतं, तत्र साधनव्यतिरेकस्य प्रमाणाऽभावस्याऽसिद्धत्वादसिद्धसाधनव्यतिरेक इति भावः ।। ७२ ।। नित्याऽनित्यः शब्दः, सत्त्वात् , यस्तु न नित्यानित्यः स न सन् , तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः, स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाऽव्यावृत्तेः ॥ ७३ ॥ भत्र वैधर्म्यदृष्टान्तत्वेनाभिमते स्तम्भे साध्यव्यतिरेकस्य नित्यानित्यत्वाभावस्य साधनव्यतिरेकस्य सत्त्वाभावस्य चाभावादसिद्धोभयव्यतिरेक इत्यर्थः ॥ ७३ ।। असर्वज्ञोऽनातो वा कपिलः, अक्षणिकैकान्तवादित्वाद, यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी, यथा सुगत इति संदिग्धसाध्यव्यतिरेकः, सुगतेऽसर्वज्ञताऽ-नाप्तत्वयोः साध्यधर्मयोावृत्तेः ___ सन्देहात् ।। ७४ ॥ मत्र साध्यमसर्वज्ञत्वमनाप्तत्वं वा, तद्वयतिरेकस्य सर्वज्ञत्वस्याssप्तत्वस्य वा दृष्टान्ते सुगते संदिग्धत्वात् संदिग्धसाध्यव्यतिरेकदृष्टान्ताऽऽभास इत्यर्थः ।। ७४ ॥ अनादेयवचनः कश्चिद् विवक्षितः पुरुषः, रागादिमत्त्वाद् , यः पुनरादेयवचनः स वीतरागः, तद्यथा शौद्धोदनिरिति संदिग्धसाधनव्यतिरेकः, शौद्धोदनौ रागादिमत्त्वस्य निवृत्तेः संशयात् ॥७५।। १ साङ्ख्यदर्शनप्रवर्तकः । सं०
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy