________________
सू० ६९-७२] षष्ठः परिच्छेदः युक्तः, नाप्रसिद्धस्य साध्यस्य । वादिना तु यच्छन्देनाऽप्रसिद्धस्य साध्यस्य निर्देशः कृत इति विपरीतान्वयः प्रदर्शितः ॥ ६८॥
वैधhणापि दृष्टान्ताऽऽभासो नवधा ॥ ६९ ॥ असिद्धसाध्यव्यतिरेकः, असिद्धसाधनव्यतिरेकः, असिद्धोभयव्यतिरेका, संदिग्धसाध्यव्यतिरेकः, संदिग्धसाधनव्यतिरेकः, संदिग्धोभयव्यतिरेकः, अव्यतिरेकः,
अप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेकश्च ॥७०॥
असिद्धसाध्यव्यतिरेकादिभेदेन वैधयेणापि दृष्टान्ताऽऽभासो नवप्रकार इत्यर्थः ॥ ७० ॥ 'तेषु भ्रान्तमनुमानं, प्रमाणवात् , यत्पुनर्भ्रान्तं न भवति न तत् प्रमाणं, यथा स्वप्नज्ञानमित्यसिद्धसाध्यव्यतिरेकः, स्वप्नज्ञानाद् भ्रान्त.
त्वस्याऽनिवृत्तेः ।। ७१ ॥ अत्रानुमाने वैधHदृष्टान्तत्वेनोपन्यस्ते स्वप्नज्ञाने साध्यव्यतिरकस्य भ्रान्तत्वाभावस्यासिद्धत्वाद् असिद्धसाध्यव्यतिरेकोऽयं दृष्टान्ताऽऽमास इत्यर्थः ॥ ७१ ॥ निर्विकल्पकं प्रत्यक्ष, प्रमाणत्वाद्, यत् तु सविकल्प न तत् प्रमाणं, यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेकः, लैङ्गिकात् प्रमाणत्वस्याऽ
निवृत्तेः ॥ ७२ ॥ १. तेषु नवसु भ्रा' क।