________________
प्रमाणनयतत्वालोके [९० ६५-६८ नायं सर्वदर्शी, रागादिमत्त्वात् , मुनिविशेषवदिति
संदिग्धोभयधर्मा ॥ ६५ ॥ दृष्टान्ते मुनिविशेषे साध्यधर्मस्य सर्वदर्शित्वस्य साधनधर्मस्य रागादिमत्त्वस्य च संशयविषयत्वादयं संदिग्धोभयधर्मा ॥६५॥
रागादिमान् विवक्षितः पुरुषः, वक्तृत्वाद,
इष्टपुरुषवदित्यनन्वयः ॥६६॥ 'विवक्षितः पुरुषो रागादिमान् , वक्तृत्वाद् , इष्टपुरुषवत्' इत्यत्र दृष्टान्ते इष्टपुरुषे यद्यपि रागादिमत्त्वं वक्तृत्वं च साध्य-साधनधर्मी दृष्टौ तथापि 'यो यो वका स स रागादिमान्' इति व्याप्यभावादनन्वयलक्षणो दृष्टान्ताऽऽभास इत्यर्थः ।। ६६ ॥ अनित्यः शब्दः, कृतकत्वाद्, घटवदित्यप्रदर्शितान्वयः
॥६७ ॥ अत्र दृष्टान्ते घटे 'यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वम्' इत्यन्वयव्याप्तिर्वर्तते तथाऽपि वादिना वचनेन न प्रकाशितेत्यप्रदर्शितान्वयः ॥ ६७॥ अनित्यः शब्दः, कृतकत्वाद्, यदनित्यं तत् कृतकं,
घटवदिति विपरीतान्वयः ॥ ६८॥ अत्र 'यत् कृतकं तदनित्यम्' इत्यन्वये वक्तव्ये "यदनित्यं तत् कृतकम्" इति विपरीतमुक्तं तस्मादत्र विपरीतान्वयो दृष्टान्ताऽऽभासः ।
इदमत्र तात्पर्यम् - प्रसिद्धानुवादेन ह्यप्रसिद्ध विधीयते । प्रकृतानुमाने तु कृतकत्वं प्रसिद्धं, हेतुत्वेनोपादानात् । अनित्यत्वं चाप्रसिद्ध साध्यत्वेन निर्देशात् । यदित्यनुवादसर्वनाम्ना प्रसिद्धस्य हेतोरेव निर्देशो