________________
स्० ६२-६४ ]
षष्ठः परिच्छेदः
शब्दोऽपौरुषेयः, अमूर्तचात् परमाणुवत्' इत्यत्र यद्यपि परमाणौ साध्यधर्मेऽपौरुषेयत्वमस्ति तथापि साधनधर्मेऽमूर्तत्वं नास्ति तस्मात् सावनधर्म विकलोऽयं दृष्टान्तः ॥ ६१ ॥
6
कलशवदित्युभयधर्मविकलः ॥ ६२ ॥
' शब्दोऽपौरुषेयः, अमूर्तत्वात् कलशवत्' इत्यत्र दृष्टान्ते कलशे साध्यधर्मस्याऽपौरुषेयत्वस्य साधनधर्मस्या मूर्तत्वस्य चाभावात् साध्यसाधनोभयधर्म विकलत्वादुभयधर्मविकलः । कलशस्य पौरुषेयत्वाद् मूर्तत्वाच्चेति भावः ॥ ६२॥
रागादिमानयं, वक्तृत्वाद, देवदत्तवदिति सन्दिग्धसाध्यधर्मा || ६३ ॥
'अयं रागादिमान् वक्तृत्वात्, देवदत्तवत्' इत्यत्र दृष्टान्ते देवदत्ते रागादयः सन्ति न वा ? इति सन्देहो वर्तते, परचेतोविकाराणाम प्रत्यक्षत्वात्, रागाद्यव्यभिचारिलिङ्गाभावादनुमानेनापि ज्ञातुमराक्यत्वाच्च । तस्मात् संदिग्धो रागादिमत्त्वलक्षणः साध्यधर्मो यत्र दृष्टान्तेऽसौ संदिग्धसाध्यधर्मा || ६३ ॥
मरणधर्माऽयं, रागादिमत्त्वात्, मैत्रवदिति सन्दिग्धसाधनधर्मा ॥ ६४ ॥
'अयं मरणधर्मा, रागादिमत्त्वात् मैत्रवत्' इत्यत्र दृष्टान्ते मैत्रे साधनधर्मस्य रागादिमत्त्वस्य संदिग्धत्वात् सन्दिग्ध साधन धर्म नामको दृष्टान्ताऽऽभास इत्यर्थः ॥ ६४ ॥