________________
प्रमाणनयतत्वालोके [०५९-६१ अतस्तदाभासस्यापि साधर्म्य-वैधर्म्यभेदेन द्विविधत्वमर्थादायातम् । तत्र साधर्म्यण दृष्टान्ताऽऽभासो नव प्रकार इत्यर्थः ॥ ५८॥ साध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्मविकलः, संदिग्धसाध्यधर्मा, सिन्दिग्धसाधनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयः, अप्रदर्शितान्वयः,
विपरीतान्वयश्चेति ॥ ५९॥ साध्यधर्मविकलादिभेदेन साधर्म्यदृष्टान्ताऽभासो नवविध इत्यर्थः ॥ ५९॥ तंत्रापौरुषेयः शब्दः, अमूर्तत्वाद्, दुःखवदिति
साध्यधर्मविकलः ॥६॥ अत्र दृष्टान्ते दुःखे अपौरुषेयत्वं नास्ति, पुरुषव्यापारजन्यत्वाद् दुःखस्य । तस्मात् साध्यधर्मेणापौरुषेयत्वेन विकलत्वादयं साध्यधर्मविकलाख्यो दृष्टान्ताऽऽभास इत्यर्थः ॥ ६ ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति
साधनधर्मविकलः ॥ ६१॥ + अत्र "द्विपदाद् धर्मादन् ॥ ७/३/१४१ ॥ इति सिद्धहेमचन्द्राख्यव्याकरणसूत्राद् अन् न भवत्यतो व्याकरणदोष इति न मन्तव्यं मनीषिभिः, कर्मधारयपूर्वपदबहुव्रीहिसमासेन साधुत्वात् । यदाहुः कवीश्वराः श्रीमेघविजयोपाध्यायाश्चन्द्रप्रभायाम्-"सन्दिग्धसाध्यधर्मत्यादौ तु कमर्धारयपूर्वपदो बहुब्रीहिः" अ० ७/३/१४१ पृ. १३२ इति ॥ सन्दिग्धः साध्यो धर्मो यत्र स सन्दिग्धसाध्यधर्मा इति तत्सिद्धिः। एवमन्यत्रापि । संशोधकः-मुनिहिमांशुविजयः ।
१. 'न्वयश्च क । २ तत्राद्योऽपौरु क ।