________________
सू० ५६-५८ ]
षष्ठः परिच्छेदः
९५
निर्णीता विपक्षे वृत्तिर्यस्यासौ निर्णीतविपक्षवृत्तिकः । संदिग्धा विपक्षे वृत्तिर्यस्य स संदिग्धविपक्षवृत्तिकः ।
अयमर्थः - यस्य हेतोर्विपक्षे साध्याभावाघिकरणे वृत्तिर्निश्चीयते निर्णीत विपक्षवृत्तिकोऽनैकान्तिकः । यस्य तु विपक्षे वृत्तिः सन्दिह्यते स सन्दिग्धविपक्षवृत्तिकोऽनैकान्तिक इति ॥ ५५ ॥
शब्दः, प्रमेय
निर्णीतविपक्षवृत्तिको यथा - नित्यः त्वात् ॥ ५६ ॥
"
शब्दो नित्यः, प्रमेयत्वात्' इत्यस्मिन्ननुमाने प्रमेयत्व हेतोर्विपक्षे नित्यत्वाभावाघिकरणेऽनित्ये घटादौ वृत्तिर्निर्णीयते, अतो भवति सन्देहः किमयं हेतुर्नित्यत्वेन व्याप्त उताऽनित्यत्वेनेति । तथा चाऽविनाभावस्य सन्देहादयं हेतुर्निर्णीत विपक्षवृत्तिकोऽनैकान्तिक इत्यर्थः ॥ ५६ ॥ संदिग्ध विपक्षवृत्तिको यथा- विवादपदाऽऽपन्नः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात् ॥ ५७ ॥
अस्मिन्ननुमाने "वक्तृत्वात्” इति हेतोर्विपक्षे सर्वज्ञे वृत्ति: संदि - ह्यते, 'किं सर्वज्ञे वक्तृत्वं वर्तते न वा' ? इति । तस्मादयं हेतुः संदिग्ध - विपक्षवृत्तिकोऽनैकान्तिक इति ॥ ५७ ॥
अथ दृष्टान्ताऽऽभासान् प्रदर्शयन्ति -
साधर्म्येण दृष्टान्ताऽऽभासो नवप्रकारः ॥ ५८ ॥ साधर्म्य - वैधर्म्यभेदेन दृष्टान्तस्य द्विविधत्वं प्राक् प्रदर्शितम् ।
१. वृत्तिकश्च क । २ विवादापचपुमान् स ख । ३ तृतीयपरिछेदे ४४ सूत्रे, पृ० ५२ ।