________________
प्रमाणनयतत्त्वालोके [सू० ५४-५५ भिज्ञानं सम्भवति, सुषुप्ताद्यवस्थायामिव बाह्यार्थग्रहणे प्रवृत्त्यभावात् । बाह्यार्थप्रहणे प्रवृत्ते सति पुरुषस्य स्थिरैकरूपत्वहानिः स्यात्, बाह्यार्यग्रहणरूपेण परिणतत्वात्, तस्मान्न स्थिरैकरूपे पुरुषे कदाचिदपि प्रत्यभिज्ञानं सम्भवति । एवमेव 'पुरुषोऽनित्य एव, प्रत्यभिज्ञानादिमत्त्वात्' इति सौगतानुमाने हेतोनिरन्वयविनाशलक्षणाऽनित्यैकरूपसाध्यविपरीतेन परिणामिपुरुषेण व्याप्तत्वाद् विरुद्धत्वम् ।
अयमर्थः- अन्यत्र देशे काले वा अनुभूतस्य वस्तुनोऽन्यत्र देशे काले वा पुनरनुभवे पूर्वदृष्टत्वेन स्मरणे च सति यत् 'सोऽयं' इत्याकारकं ज्ञानमुन्मजति तत् प्रत्यभिज्ञानम् । बौद्धमते तावदात्मनः क्षणिकत्वाद् य आत्मा प्रागनुभूतवान् वस्तु, स आत्मा तदानीमेव विनष्ट इति तेन तद्वस्तु पुनरपि द्रष्टुं स्मर्तु वा शक्यत इति न प्रत्यभिज्ञानादिमत्वं आत्मनः सिध्यति । एवं च नानित्यत्वैकान्तेन साकं प्रत्यभिज्ञानादिमत्त्वस्य व्यासिरस्ति, अपि तु कथञ्चिन्नित्याऽनित्यत्वेन सहैवेति विरुद्धोऽयं बौद्धमते हेतुः ॥ ५३॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः
॥५४॥ यस्य हेतोः, अन्यथानुपपत्तिः-साध्येन सहाऽविनाभावः सन्दिह्यते-कचित् साध्याधिकरणे कचित् साध्याऽभावाधिकरणे हेतोर्वर्तनात् संदेहविषयो भवति सोऽनैकान्तिकः ॥ ५४॥ स'द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्ष
वृत्तिकश्च ॥ ५५ ॥ १. स वैधा स्व।