________________
सू०८२-८४] षष्ठः परिच्छेदः
१०३ धर्मस्योपसंहरणलक्षणं उपनयवाक्यं प्रयोक्तव्यमासीत् किन्तु वादिना 'परिणामी च शब्दः' इति साध्यधर्मिणि साध्यधर्मस्य, “कृतकश्च कुम्भः" इति दृष्टान्तधर्मिणि साधनधर्मस्य चोपसंहरणं कृतमिति उपनयाऽऽभास इत्यर्थः ।। ८१ ॥ तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति, तस्मात्
परिणामी कुम्भ इति च ॥ ८२॥ तस्मिन्नेव प्रयोगे–' शब्दः परिणामी, कृतकत्वात् , कुम्भवत्' इति प्रयोगे 'तस्मात् परिणामी शब्दः' इत्याकारकसाध्यधर्मस्य साध्यधर्मिणि उपसंहरणलक्षणं निगमनवाक्यं प्रयोक्तव्यमासीत्, तथापि वादिना "तस्मात् कृतकः शब्दः" इति साधनधर्मस्य साध्यधर्मिणि, "तस्मात् परिणामी कुम्भः" इति साध्यधर्मस्य दृष्टान्तधर्मिणि उपसंहरणं कृतमिति निगमनाऽऽमासमित्यर्थः ॥ ८२ ॥
अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥ ८३॥ " अभिधेयं वस्तु यथाऽवस्थितं यो जानीते यथाशनं चाभिधत्ते समाप्तः " [॥ ४-४ ॥, पृ० ५५] तद्विपरीतो योऽभिधेयं वस्तु यथाऽ. वस्थितं न जानीते यथाज्ञानं च नाभिधत्ते सोऽनाप्तः, तद्वचनसमुत्थं ज्ञानमागमाऽऽभासं ज्ञातव्यम् ॥ ८३ ॥
यथा-मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले मुलभाः पिण्डखजूराः सन्ति त्वरितं
गच्छत गच्छत शावकाः! ॥८४॥ मेकलकन्यका-नर्मदा, तस्याः कूले-तटे ॥ ८४ ॥ १ कुम्भो वा क ।, कुम्भ इति वास ।