________________
१०४
प्रमाणनयतत्त्वालोके [सू०८५-८६ प्रमाणस्य स्वरूपाऽभासमुक्त्वा संप्रति तस्य संख्याऽऽभासमाख्यान्तिप्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य
संख्याऽऽभासम् ॥ ८५॥ प्रत्यक्ष-परोक्षभेदेन प्रमाणस्य द्वैविध्यमुक्तं, तद्वैपरीत्येन 'प्रत्यक्षमेकमेव प्रमाणम्' इति चार्वाकाः। 'प्रत्यक्षानुमाने एव' इति सौगताः, वैशेषिकाश्च । प्रत्यक्षानुमानाऽऽगमा एव प्रमाणम्' इति सांख्यादयो यद् वदन्ति तत् प्रमाणस्य संख्याऽऽभासम् । प्रमाणसंख्याऽभ्युपगमश्च तत्तद्वादिनामित्थम्
"चार्वाकोऽध्यक्षमेकं, सुगत-कणभुजौ सानुमानं, सशाब्दं तद्वैतं पारमर्षः, सहितमुपमया तद् त्रयं चौक्षपादः । अर्थाऽऽपत्या प्रभाकृद् वदति च निखिलं मन्यते भी एतत् साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च" ।। ८५॥ विषयाभासं प्रकाशयन्तिसामान्यमेव, विशेष एव, तवयं वा स्वतन्त्र
मित्यादिस्तस्य विषयाभासः ॥ ८६ ।। १. प्रत्यक्षम् । २. बौद्ध-वैशेषिको । ३. प्रत्यक्षानुमानद्वयम् । १. साख्यः । ५. नैयाविकः । “ नैयायिकस्वाक्षपादो योगः " [३-५२६] इति हैमः । ६. कुमारिलः । ७ जैनसिदान्ते, 'समयः शपथे भाषासम्पदोः काल-संविदोः । सिद्धान्ताऽऽचार-संकेत-नियमावसरेषु च ॥ [तृतीयकाण्डे ] इति हैमानेकार्थकः । प्रत्यक्षतः परोक्षतश्वेत्यर्थः । प्रत्यक्ष-परोक्षातिरिकप्रमाणखानं तु स्याद्वादरत्नाकरतो (परि० २-1) रत्नाकरावतारिकातश्च विज्ञेयम् ।-संशोधकः मुनिहिमांशुविजयः ।