________________
सू० ८७]
षष्ठः परिच्छेदः प्रमाणस्य विषयः सामान्य विशेषाऽऽनकं वस्तु इति पूर्वमुक्तं, [सू० ॥५-१॥, पृ० ७८] तद्वैपरीत्येन 'सामान्यमेव प्रमाणस्य विषयः, इति सत्तोऽद्वैतवादिनः, 'विशेष एव' इति सौगताः। तदुभय च स्वतन्त्रम्' इति । नैयायिका यत् स्वीकुर्वन्ति स विषयाऽऽभास इत्यर्थः ॥ ८६ ॥ अभिन्नमेव भिन्नमेव वा प्रमाणात फलं, तस्य
तदाभासम् ॥ ८७ ॥ अभिन्नमेव प्रमाणात् फलं बौद्धानाम् । भिन्नमेव नैयायिकादीनाम् । तस्य प्रमाणस्य फलाऽऽभासमिति । वस्तुतः प्रमाणात फलस्य भिन्नाभिन्नत्वं प्रागुपदर्शितम् ॥ ८७ ॥
इति बालबोधिन्यास्यया टिप्पण्या विभूषिते भीवादिदेवसरिसंहन्धे प्रमाणनयतत्त्वालोके प्रत्यक्षस्वरूपनिर्णायको
षष्ठः परिच्छेदः।
१. शाहरप्रमुखाः ।