SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः। नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः, स प्रतिपत्तुरभिप्राय विशेषो नयः ॥१॥ श्रुताख्यप्रमाणविषयीकृतस्य शाब्दबोधे प्रतिभासमानस्यार्थस्य, एकदेशः अनन्तांशात्मके वस्तुनि एकोऽश: तदितरांशौदासीन्यतो येन अभिप्रायविशेषेण नीयते-ज्ञायते स प्रतिपत्तुरभिप्रायविशेषो नयः ॥१॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः॥२॥ योऽभिप्रायविशेषः स्वाभिप्रेतमंशमङ्गीकृत्य, इतरांशानपलपति स नयाभासः ॥ २॥ स व्यास-समासाभ्यां द्विप्रकारः॥३॥ स नयो व्यास-समासाभ्यां विस्तर-संक्षेपाभ्यां द्विप्रकार:द्विभेदः ॥ ३॥ व्यासतोऽनेकविकल्पः ॥४॥ १. पञ्चानुशासनविधातारो विख्यातख्यातयः श्रीहेमचन्द्राचार्यपादा नयाऽऽभासादीनां (दुर्नयादीनां ) लक्षणान्येवमाख्यातवन्तः "सदेव, सत् , स्यात् सद्, इति त्रिधार्थों मीयेत दुर्नीति-नय-प्रमाणैः ।" -अन्ययोगव्यव० कारिका २८ ॥ २. जावइआ वयणपहा तावइआ चेव हुँति नयवाया ॥ (यावन्तो वचनपथास्तावन्तश्चैव भवन्ति नयवादाः) इत्यार्षम् । वादिमल्लप्रतिमल्ल श्रीमल्लवादिसूरिभिः श्रीनयचक्रवालग्रन्थे नयाः शतशः प्रकाराः प्ररूपिता अतस्ततो विशेषपरिचयः प्राप्यः । स च प्रन्यो मुद्रयमाण (मुद्रितः) आस्ते। -संशोधकः मुनिहिमांशुविजयः ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy