Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
सू० २७-३०] सप्तमः परिच्छेदः ११३ मागततः प्रतीयमानं भूतचतुष्टयात्मकं घट-पटादिरूपं पदार्यजातं पारमार्थिकं मन्यते, तदतिरिक्तं द्रव्यपर्यायविभागं काल्पनिकमिति । तस्मात् चार्वाकदर्शनं व्यवहाराऽऽभासमिति भावः ॥ २६ ॥
द्रव्यार्थिकं त्रेधाऽभिधाय पर्यायार्थिकं प्रपश्चयन्तिपर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः, शब्दः, सममिरूढः,
एवंभूतश्च ॥ २७ ॥ ऋजु-वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः
सूत्रयन्नभिपाय ऋजुसूत्रः ॥ २८ ॥ ऋजु-अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् सरलम् । अयं भावः- योऽभिप्रायविशेषो वर्तमानक्षणस्थितपर्यायानेव प्राधान्येन दर्शयति तत्र विद्यमानद्रव्यं गौणत्वान्न मन्यते स ऋजुसूत्रः ॥ २८ ॥
यथा-सुखविवर्तः सम्पत्यस्तीत्यादिः ॥ २९॥
यद्यपि सुख-दुःखादयः पर्याया आत्मद्रव्यं विहाय कदापि न भवन्ति, तथापि पर्यायस्य यदा प्राधान्येन विवक्षा क्रियते द्रव्यस्य च गौणत्वेन तदा भवत्येवं प्रयोगः “ सुखविवर्तः सम्प्रत्यस्ति" इति, एवं दुःखपर्यायोऽधुना वर्तते इत्यादिकमूहनीयम् ॥ २९ ॥
सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ यः पर्यायानेव स्वीकृत्य सर्वथा द्रव्यमपलपति सोऽभिप्रायविशेष ऋजुसूत्राऽऽभास इत्यर्थः ॥ ३० ॥
१. पृथव्यप्तेजोवायव इति भूतचतुष्टयम् । -संशोधकः २. त्यादि क।

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177