SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सू० २७-३०] सप्तमः परिच्छेदः ११३ मागततः प्रतीयमानं भूतचतुष्टयात्मकं घट-पटादिरूपं पदार्यजातं पारमार्थिकं मन्यते, तदतिरिक्तं द्रव्यपर्यायविभागं काल्पनिकमिति । तस्मात् चार्वाकदर्शनं व्यवहाराऽऽभासमिति भावः ॥ २६ ॥ द्रव्यार्थिकं त्रेधाऽभिधाय पर्यायार्थिकं प्रपश्चयन्तिपर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः, शब्दः, सममिरूढः, एवंभूतश्च ॥ २७ ॥ ऋजु-वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिपाय ऋजुसूत्रः ॥ २८ ॥ ऋजु-अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् सरलम् । अयं भावः- योऽभिप्रायविशेषो वर्तमानक्षणस्थितपर्यायानेव प्राधान्येन दर्शयति तत्र विद्यमानद्रव्यं गौणत्वान्न मन्यते स ऋजुसूत्रः ॥ २८ ॥ यथा-सुखविवर्तः सम्पत्यस्तीत्यादिः ॥ २९॥ यद्यपि सुख-दुःखादयः पर्याया आत्मद्रव्यं विहाय कदापि न भवन्ति, तथापि पर्यायस्य यदा प्राधान्येन विवक्षा क्रियते द्रव्यस्य च गौणत्वेन तदा भवत्येवं प्रयोगः “ सुखविवर्तः सम्प्रत्यस्ति" इति, एवं दुःखपर्यायोऽधुना वर्तते इत्यादिकमूहनीयम् ॥ २९ ॥ सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ यः पर्यायानेव स्वीकृत्य सर्वथा द्रव्यमपलपति सोऽभिप्रायविशेष ऋजुसूत्राऽऽभास इत्यर्थः ॥ ३० ॥ १. पृथव्यप्तेजोवायव इति भूतचतुष्टयम् । -संशोधकः २. त्यादि क।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy