SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ११२ प्रमाणनयतत्त्वालोके [सू० २३-२६ व्यवहारनयं प्रदर्शयन्तिसंग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः ॥२३॥ संग्रहनयेन विषयीकृतानामर्थानां सत्त्वद्रव्यत्वादीनां विधानानन्तरमवहरणं-विभागो येनाभिप्रायविशेषेण क्रियते सोऽभिप्रायविशेषो व्यवहारनयः ॥ २३॥ यथा-यत् सत् तद् द्रव्यं पर्यायो वेत्यादिः॥२४॥ आदिपदेन अपरसंग्रहविषयीकृतार्थविषयव्यवहारोदाहरणं द्रष्टव्यम् । यद् द्रव्यं तद् जीवाजीवादिभेदेन षट्प्रकारम् । यः पर्यायः स द्विविधः । सुख-दुःखादिरूपः क्रममावी, विज्ञानव्यक्तिशक्त्यादिरूपः सहभावी च । एवं यो जीवः स मुक्तः संसारी च । यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेत्यादि ॥२४॥ यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रैति स व्यवहाराभासः ॥ २५ ॥ योऽभिप्रायविशेषो द्रव्य-पर्यायविभागमपारमार्थिक-काल्पनिक मन्यते स व्यवहाराऽऽभासः ॥ २५ ॥ यथा-चार्वाकदर्शनम् ॥ २६ ॥ चार्वाको हि वस्तुनो द्रव्य-पर्यायात्मकत्वं नाङ्गीकरोति, किन्तु १. वेत्यादि । २. 'मार्थिकं द्रव्यं । ३. वास्पतिप्रवर्तितं परलोकात्म-पुण्य-पाप-मोक्षनिषेधकं नास्तिकं मतम्।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy