SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पू० २०-२२ ] सप्तमः परिच्छेदः १११ द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि द्रव्यत्वादीनि अवान्तरसामान्यानि - सत्तारूपपर सामान्यापेक्षया कतिपयञ्यक्तिनिष्ठत्वादवान्तरसामान्यानि स्वीकुर्वाणः, तद्भेदेषु धर्माधर्माssकाश-काल- पुद्गल जीवादिविशेषेषु द्रव्यत्वाद्याश्रयभूतेषु गजनिमीलिकाम् - उपेक्षामवलम्बमानः पुनरपरसंग्रहः ।। १९ ।। ● र्माधर्माऽऽकाश-काल- पुद्गल - जीवद्रव्याणामैक्यं, द्रव्यत्वाभेदादित्यादिर्यथा ॥ २० ॥ धर्माधर्मादीनामैक्यं द्रव्यत्वाभेदात्- 'द्रव्यं द्रव्यम्' इत्यभिन्नज्ञानाभिघानलक्षणलिङ्गानुमितद्रव्यत्वाऽ मेदादित्यर्थः । आदिपदेन चेतनाचेतन पर्यायाणामेकत्वं पर्यायत्वाभेदादिति पर्यायाभेदसाधकमनुमानमपि बोध्यम् ॥ २० ॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान् निहुवान स्तदाभासः ॥ २१ ॥ द्रव्यत्वादिसामान्यमङ्गीकृत्य तद्विशेषान् धर्माधर्मादीन् प्रतिक्षिपन्न - भिप्रायविशेषस्तदाभासः - अपरसंग्रहाऽऽभास इत्यर्थः ॥ २१ ॥ यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः || २२ ॥ ततः- - द्रव्यत्वसकाशात्, अर्थान्तरभूतानां - धर्माधर्माऽकाशादीनाम् ॥ २२ ॥ १. धर्मास्तिकाया - धर्मास्तिकायाख्यं गतिस्थितिनिमित्तं द्रव्यद्वयम् । - संशोधकः । २. काशपुद्गल क । ३. लब्धेः क ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy