SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११० प्रमाणनयतस्वालोके [स्० १६-१९ न्यम् । तत्र शुद्रव्यं सन्मात्रमभिमन्यमानः समस्तविशेषेषु औदासीन्यं भजमानो योऽभिप्रायविशेषः स परसंग्रहाऽऽख्यो नयो बोद्धव्यः ॥१५॥ विश्वमेकं संदविशेषादिति यथा ॥१६॥ विश्व-जगत् , एकम्-एकरसं, सदविशेषात्–'सत्' इत्याकारकज्ञानाभिधानाभ्यामविशेषरूपेण ज्ञायमानत्वात् , अनेनानुमानेन सकलविशेषेष्वौदासीन्यमवलम्बमानः सत्ताद्वैतं स्वीकुर्वाणोऽभिप्रायविशेषः परसंग्रहः ॥ १६ ॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाण स्तदाभासः ॥ १७॥ यथा-सत्तैव तत्त्वं, ततः पृथग्भूतानां विशेषाणाम दर्शनात् ॥ १८॥ अद्वैतवादिनो हि सत्ताऽतिरिक्तं वस्त्वन्तरं नाङ्गीकुर्वन्ति, अतोऽ. दैतदर्शनं संग्रहाभासत्वेन ज्ञातव्यम् ॥ १८ ॥ द्रव्यखादीन्यवान्तरसामान्यानि मन्नानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुन रपरसंग्रहः ॥ १९॥ १. जैनसिद्धान्ते द्रव्य-पर्याययोरात्यन्तिको भेदो निषिदः, तथा चोकवन्तः सम्मतितकें प्रचण्डताकिकचकचकार्तिनः तत्रभवन्तः श्रीसिद्धसेनदिवाकरपादाः “दव्ध पज्जवविउअं दवविउत्ता य पजवा पस्थि" ॥ (द्रव्यं पर्यववियुतं द्रव्यषियुक्ताश्च पर्यवा न सन्ति"॥१-१२॥) -संशोधकः मुनिहिमांशुविजयः । २. सदविशेषात् क। ३. परः संप्रहः ख।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy