________________
सू० १२-१५] सप्तमः परिच्छेदः द्वयोर्धर्मिणोः, धर्म-धर्मिणोर्वा विषये ऐकान्तिकभेदाभिप्रायो यः स नैगमाऽऽभास इत्यर्थः ॥ ११ ॥
यथा-आत्मनि सत्त्व चैतन्ये परस्परमत्यन्तं
पृथगभूते इत्यादिः ॥ १२ ॥ एवं 'पर्यायवद् द्रव्यं वस्तु च परस्परमत्यन्तं पृथग्भूते' सुखजीवयोश्च परस्परमात्यन्तिको भेद इत्याकारको योऽभिप्रायविशेषः स नैगमाऽऽभास इत्यर्थः ॥ १२॥
सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३॥
सामान्यमात्रग्राही-सत्वद्रव्यत्वादिसामान्यमात्रविषयकः परामर्श:-अभिप्रायविशेषः संग्रहः । सममेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रह इति व्युत्पत्तेः ॥ १३ ॥
अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अयं संग्रहाल्यो नयः परसंग्रहमेदेन द्विभेद इत्यर्थः ॥ १४ ॥
अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्र
ममिमन्यमानः पैरसंग्रहः ॥१५॥
सामान्यं द्विविधं परसामान्यमपरसामान्यं च। तत्र शुद्धद्रव्यापरपर्यायं सत्ताऽऽख्यं परसामान्यम् । द्रव्यत्वपृथिवीत्वादिकमपरसामा.
१. इत्यादि । २. सत्तामात्रक। ३. परः संग्रहः ।