________________
१०८
प्रमाणनयतत्त्वालोके [स्० ९-११ सत्त्वविशिष्टं चैतन्यं-सच्चैतन्यमात्मनि वर्तते' इति वाक्ये चैतन्याख्यधर्मस्य प्राधान्येन विवक्षा, तस्य विशेष्यत्वात् , सत्त्वाख्यधर्मस्य तु गौणत्वेन, तस्य चैतन्यविशेषगत्वादिति धर्मद्वयविषयको नैगमस्य प्रथमो भेदः ॥ ८॥
वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ अत्र 'पर्यायवद् द्रव्यं वस्तु च' इति धर्मिद्वयम् । 'पर्यायवद् द्रव्यं वस्तु वर्तते' इति विवक्षायां पर्यायवद् द्रव्याख्यस्य धर्मिणो विशेष्यत्वेनोपात्तत्वात् प्राधान्यम्, वस्त्वाख्यस्य तु धर्मिणो विशेषणत्वेन गौणत्वम् । अथवा किं वस्तु ? 'पर्यायवद् द्रव्यमिति विवक्षायां वस्त्वाख्यस्य धर्मिगो विशेष्यत्वात् प्राधान्यं, पर्यायवद् द्रव्याख्यस्य तु धर्मिणो विशेषगत्वेन गौणत्वमिति धर्मिद्वयविषयको नैगमस्य द्वितीयो भेदः ॥ ९॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्म-धर्मिणोः
॥१०॥ अत्र विषयाऽऽसतजीवस्य प्राधान्यं, विशेष्यत्वेनोपात्तत्वात् , सुखरूपस्य धर्मस्य तु अप्राधान्यं, विशेषणत्वेन निर्दिष्टत्वाद् इति धर्म-धर्मिद्वयाऽऽलम्बनोऽयं नैगमस्य तृतीयो भेदः ॥ १०॥ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमा
___ऽऽभासः ॥ ११॥ आदिपदेन धर्मिद्वय-धर्मधर्मिययोः संग्रहः । तथा च द्वयोधर्मयोः, १. इति तु धर्म क न । २. सन्धिरेकान्तिकमेदाभिप्रायो नै क।