Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
१०७
सू० ५-८]
सप्तमः परिच्छेदः
अनन्तांशात्मके वस्तुनि एकांशगोचरः प्रतिपत्तुरभिप्रायविशेषो नय इति प्राक् प्रदर्शितम् । ततश्चानन्तांशात्मके वस्तुनि एकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तृगामभिप्रायविशेषास्तावन्तो नया इति व्यासतोऽनेक प्रकार इत्यर्थः ॥ ४ ॥
समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥५॥
संक्षेपेण तु द्विप्रकारः । द्रव्यार्थिकः — देव्यार्थोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः । पर्यायार्थिकः पर्यायरूपोऽर्थः पर्यायार्थः.. पर्यायार्थोऽस्ति यस्य विषयत्वेन स पर्यायार्थिकः ॥ ५ ॥
I
आद्यो नैगम-संग्रह - व्यवहारभेदात् त्रेधा ॥ ६ ॥ आयो द्रव्यार्थिकः । नैगमादिभेदात् त्रिविधः ॥ ६ ॥ धर्मयोर्धर्मिणोर्धर्म-धर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैगमो नैगमः ॥ ७ ॥
धर्मयोः - पर्याययोः, धर्मिणोः - द्रव्ययोः, धर्मधर्मिणोः - द्रव्यपर्याययो प्रधान - गौणभावेन विवक्षणं स नैगमः । नैके गमाः - बोधमार्गा यस्यासौ नैगम इति ॥ ७ ॥
सच्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥
प्रधानोपसर्जनभावेन विवक्षणमिहोत्तरत्र च सूत्रद्वये योजनीयम् ।
१. द्रवति, अदुद्रुवत् द्रोष्यति तांस्तान् पर्यायानिति द्रव्यम् । सामान्यगोचरो द्रव्यार्थिकः, विशेषगोचर व पर्यायार्थिको नय इति रहस्यम् ।
- संशोधकः ।
२. मेदात् त्रिधा क ।

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177