Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
११०
प्रमाणनयतस्वालोके [स्० १६-१९ न्यम् । तत्र शुद्रव्यं सन्मात्रमभिमन्यमानः समस्तविशेषेषु औदासीन्यं भजमानो योऽभिप्रायविशेषः स परसंग्रहाऽऽख्यो नयो बोद्धव्यः ॥१५॥
विश्वमेकं संदविशेषादिति यथा ॥१६॥ विश्व-जगत् , एकम्-एकरसं, सदविशेषात्–'सत्' इत्याकारकज्ञानाभिधानाभ्यामविशेषरूपेण ज्ञायमानत्वात् , अनेनानुमानेन सकलविशेषेष्वौदासीन्यमवलम्बमानः सत्ताद्वैतं स्वीकुर्वाणोऽभिप्रायविशेषः परसंग्रहः ॥ १६ ॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाण
स्तदाभासः ॥ १७॥ यथा-सत्तैव तत्त्वं, ततः पृथग्भूतानां विशेषाणाम
दर्शनात् ॥ १८॥ अद्वैतवादिनो हि सत्ताऽतिरिक्तं वस्त्वन्तरं नाङ्गीकुर्वन्ति, अतोऽ. दैतदर्शनं संग्रहाभासत्वेन ज्ञातव्यम् ॥ १८ ॥ द्रव्यखादीन्यवान्तरसामान्यानि मन्नानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुन
रपरसंग्रहः ॥ १९॥ १. जैनसिद्धान्ते द्रव्य-पर्याययोरात्यन्तिको भेदो निषिदः, तथा चोकवन्तः सम्मतितकें प्रचण्डताकिकचकचकार्तिनः तत्रभवन्तः श्रीसिद्धसेनदिवाकरपादाः
“दव्ध पज्जवविउअं दवविउत्ता य पजवा पस्थि" ॥ (द्रव्यं पर्यववियुतं द्रव्यषियुक्ताश्च पर्यवा न सन्ति"॥१-१२॥)
-संशोधकः मुनिहिमांशुविजयः । २. सदविशेषात् क। ३. परः संप्रहः ख।

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177