Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रमाणनयतस्वालोके
[सू०४७-५१
पक्षाऽऽभासान् निरूप्य हेत्वाभासानाहुःअसिद्ध-विरुद्धानकान्तिकास्त्रयो हेत्वाभासाः ॥४७॥
व्याप्त्याश्रयाभावादहेतवोऽपि हेतुवदाभासन्ते इति हेत्वाभासाःदुष्टहेतव इत्यर्थः, ते चाऽसिद्ध-विरुद्धानै कान्तिकभेदेन त्रिविधाः ॥४॥ यस्यान्यथाऽनुपपत्तिः प्रमाणेन न प्रतीयते
सोऽसिद्धः ॥४८॥ यस्य हेतोः केनापि प्रमाणेनान्यथाऽनुपपत्तिर्न प्रतीयते सोऽसिद्धः, निश्चितान्यथाऽनुपपत्ये कलक्षणत्वाद्धेतोः ॥ ४८ ॥
स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥४९॥
स हेतुद्विविधः । यो वादि-प्रतिवादिसमुदायरूपस्योभयस्यासिद्धः स उभयाऽसिद्धः । यस्वन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धः सोऽन्यतराऽसिद्ध इत्यर्थः ॥ १९ ॥ उभयासिद्धो यथा-परिणामी शब्दः चाशुषत्वात्
॥५०॥ शब्दे चाक्षुषत्वं वादि-प्रतिवादिनोरुभयोरप्यसिद्धं, श्रावगत्वात् शब्दस्य, तस्मादयं हेतुरुभयासिद्ध इत्यर्थः ॥ ५० ॥
अन्यतरासिदो यथा-अवेतनास्तरवः, विज्ञानेद्रिया___ऽऽयुनिरोधलक्षणमरणरहितत्वात् ॥ ५१॥
विज्ञानस्येन्द्रियाणामायुवश्च निरोधः-प्रभाव इति विज्ञानेन्द्रियायु. निरोधः, तल्लक्षणं यन्मरणं तदभावाद् इति बौद्धा वृक्षेषु अचेतनत्वप्रसाधनार्थ हेतुमुपन्यस्यन्ति तन्न युक्तम् , अस्य हेतोः प्रतिवाद्यसिद्धिकलाक

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177